Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
कर्मप्रकृतिः ॥१५९॥
तावदुत्किरति यावदन्तर्मुहूर्तचरमसमये सकलमपि तत्कण्डकमुत्कीर्ण भवति । एवमान्तमौहर्तिकानि स्थितिकण्डकान्यनुभागकण्डकानि च तावद्घातयति यावत्सयोग्यवस्थाचरमसमयः। सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसंख्येयान्यवगन्तव्यानि । अयं च समु. द्घातविधिरावश्यकचूर्ण्यनुसारेणाभिहितः । यस्य तु केवलिनो वेदनीयादिकर्मत्रयमायुषा सह समस्थितिकं स समुद्घातं न गच्छति । गत्वाऽगत्वा वा समुद्घातं लेश्यानिरोधार्थ योगनिमित्तबन्धनिरोधार्थ च योगनिरोधमवश्यं कुरुते । उक्तं च-“स ततो योगनिरोधं करोति लेश्यानिरोधमभिकाङ्कन् । समयस्थितिकं च बन्धं योगनिमित्त विनिरुरुत्सन् ॥१॥ समये समये कर्मादाने सति संततेन मोक्षः स्यात् । यद्यपि हि विमुच्यन्ते स्थितिक्षयात् पूर्वकर्माणि ॥२॥ नोकर्मणा हि वीर्य योगद्रव्येण भवति जीवस्य । तस्यावस्थानेन तु सिद्धः समयस्थितिबन्धः ॥३॥' अत्र बन्धस्य समयमात्रस्थितिकता बन्धसमयबहिर्भावेन द्रष्टव्या । योगनिरोधं कुर्वन् प्रथमतो बादरकाययोगवलादन्तर्मुहूर्त्तमात्रेण वाग्योगं निरुणद्धि । तन्निरोधानन्तरं चान्तर्मुह स्थित्वा बादरकाययोगोपष्टम्भादेव बादरमनोयोगमन्तर्मुहर्त्तमात्रेण निरुणद्धि । उक्तं च-“वादरतन्वा पूर्व वाङ्मनसे निरुणद्धि । आलम्बनाय करणं तदिप्यते तत्र वीर्यवतः ॥१॥" बादरम नोयोगनिरोधानन्तरं च पुनरप्यन्तर्मुहृतं स्थिन्वोच्छ्वासनिःश्वासावन्तर्मुहूर्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहूर्त स्थित्वा | सूक्ष्मकाययोगवलाद्वादरकाययोगं निरुणद्धि, सति बादरयोगे सूक्ष्मयोगस्य निरोधुमशक्यत्वात् । आह च-"बादरतनुमपि निरुणद्धि ततः सूक्ष्मेण काययोगेन । न निरुध्यते हि सूक्ष्मो योगः सति बादरे योगे ॥१॥" केचिदाहः-"बादरकाययोगबलावादरकाययोगं निरुणद्धि, यथा कारपत्रिका स्तम्मे स्थितस्तमेव स्तम्भ छिनत्ति' । तदत्र तन्यमतिशायिनो विदन्ति । बादरं च काययोग निरन्धान: पूर्वस्पर्धकानामधस्तादपूर्वस्पर्धकानि करोति । तत्र यानि तस्मिन् भवे पर्याप्तिपर्यायपरिणतेन सता जीवेन पूर्व कायादिव्यापारनिष्पा
॥१५९॥
Loading... Page Navigation 1 ... 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490