Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
&
क्षपकश्रेणिः
कर्मप्रकृतिः ॥१५८॥
आयुषः सकाशादधिकतरं भवति, अन्यस्तु न करोत्येव । अथ कुतोऽयं नियमो यद्वेदनीयाद्येवायुषः सकाशादधिकस्थितिकं भवति, न || तु कदाचिदपि वेदनीयादेरायुरिति ? उच्यते-तथारूपजीवपरिणामस्वाभाव्यात् । इत्थंभूत एव ह्यात्मनः परिणामो येनास्यायुर्वेदनीयादेः समं भवति न्यून वा, न तु कदाचनाप्यधिकं, यथा तस्यैवायुषोऽध्रुवबन्धस्वभावः, शेषकर्माणि हि सर्वदैव बध्यते, आयुस्तु प्रतिनियत | एव काले स्वभवत्रिभागादिरूपे, न चेदृग्बन्धवैचित्र्ये स्वभावाहतेऽपरः कश्चिदस्ति हेतुः । एवमायुगो वेदनीयादेराधिक्याभावेऽपि स्वभावविशेष एव नियामको द्रष्टव्यः । ___ अथ समुद्घात इति कः शब्दार्थः ? उच्यते-सम्यक् अपुनर्भावेन उत्प्राबल्येन घातो वेदनीयादिकर्मणां विनाशो यस्मिन् क्रियाविशेषे स समुद्घातः, तं च कुर्वन् केवली प्रथमसमये बाहल्यतः स्वशरीरप्रमाण मूर्ध्वमधश्च लोकान्तपर्यन्तमात्मप्रदेशानां दण्डमारचयति, द्वितीये समये पूर्वापरं दक्षिणोत्तरं वा कपाटं, तृतीये मन्थानं, चतुर्थेऽवकाशान्तरपूरणं, पञ्चमेऽवकाशान्तराणां संहारं, षष्ठे मथः, सप्तमे कपाटस्य, अष्टमे स्वशरीरस्थो भवति । तत्र दण्डसमयात्प्राग् या पल्योपमासंख्येयभागमात्रा वेदनीयनामगोत्राणां स्थितिरासीत्तस्या बुद्ध्याऽसंख्येया भागाः क्रियन्ते । ततो दण्डसमये दण्डं कुर्वन्नसंख्येयान् भागान् हन्ति, एकोऽसंख्येयो भागोऽवतिष्ठते । यश्च प्राक् कर्मत्रयस्यापि रस आसीत्तस्याप्यनन्ता भागाः क्रियन्ते, ततस्तस्मिन् दण्डसमयेऽसातवेदनीयाद्यवर्जसंस्थानपञ्चकाद्यवर्जसंहननपञ्चकाप्रशस्तवर्णादिचतुष्कोपघाताप्रशस्तविहायोगत्यपर्याप्तकास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तिनीचेगोत्राणां पञ्चविंशतिप्रकृतीनामनन्तान् भागान् हन्ति, एकोऽनन्तभागोऽवशिष्यते । तस्मिन्नेव च समये सातवेदनीयदेवद्विकमनुजद्विकपश्चेन्द्रियजातिशरीरपञ्चकाङ्गोपाङ्गत्रयप्रथमसंस्थानप्रथमसंहननप्रशस्तवर्णादिचतुष्टयागुरुल घुपराघातोड्वासप्रशस्तविहायोगतित्रसबादरपर्याप्त प्रत्येकातपोद्योतस्थिरशुभसु
११५८॥
Loading... Page Navigation 1 ... 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490