Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1475
________________ कर्मप्रकृतिः क्षपकश्रेणिः ॥१५७|| ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं | शेषः । तस्मिन्नेव च समय मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयोनालिकाद्विकबद्धमेव, शेषस्य मायायां प्रक्षिप्तत्वात् । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहर्त्तमात्रम् । संज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने तस्य सम्बन्धि दलिक समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण मायायां सर्व प्रक्षिपति । मायाया अपि च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकाशेपं जातम् । ततोऽनन्तरसमये मायाया द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः । ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकवद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् । ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिक द्वितीयस्थितिगत माकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तमुहर्तम् । सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने तत्सम्बन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण सर्व लोभे संक्रमयनि । सज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकामावशेष जातम् । ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिंक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिती करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिक गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावत् द्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृत्य वेद्यमानस्य समयाधिकावलिकामाचं शेषः । तस्मिन्नेव च समये संचलनलोभस्य बन्धवादरकपायोदीरणानवमगुणस्थानकालानां युगपद्यवच्छेदो जायते । ततो ॥१५७॥ SHMA

Loading...

Page Navigation
1 ... 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490