Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1487
________________ कर्म प्रकृतिः ॥१६३॥ सूरश्रीविजयप्रमे श्रितवति प्राज्यं च राज्यं कृतो, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥२॥ सूरि श्रीगुरुहीरशिष्यपरिषत्कोटीरहीरप्रभाः, कल्याणाद्विजयाभिधाः समभवँस्तेजस्विनो वाचकाः । तेषामन्तिषदश्च लाभविजयप्राज्ञोत्तमाः शाब्दिक - श्रेणिकीर्तित कार्तिकीविधुरुचिप्रस्पर्द्धिकीर्त्तिप्रथाः ॥३॥ तच्छिष्याः स्म भवन्ति जीवविजयाः सौभाग्यभाजो बुधा, भ्राजन्ते सनया नयादिविजयास्तेषां सतीर्थ्या बुधाः । तत्पादाम्बुजभृङ्गपद्मविजयप्राज्ञानुजन्मा बुध-स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ||४| इदं हि शास्त्रं श्रुतकेवलिस्फुटाधिगम्यपूर्वोद्धृतभावपावनम् । ममेह धर्वामनयष्टिवद्ययौ तथापि शक्त्यैव विभोरियद्भुवम् ॥५॥ प्राक्तनार्थलिखनाद्वितन्वतो नेह कश्चिदधिको मम श्रमः । वीतरागवचनानुरागतः पुष्टमेव सुकृतं तथाप्यतः ||६|| ।। इति काशीविबुधविजयावाप्तन्यायविशारदपद - अपूर्वग्रन्थशतग्रथनप्रभाववितीर्ण न्यायाचार्य पदधारकश्रीमद्यशोविजयवाचकपुङ्गवविरचिता कर्मप्रकृतिवृत्तिः ॥ प्रशस्तिः ॥१६३॥

Loading...

Page Navigation
1 ... 1485 1486 1487 1488 1489 1490