Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1482
________________ यह क वनाशयति यावत्सयोग्यवस्थाचरमसमयः । तस्मिँथ चरमसमये सर्वाण्यपि कमाण्ययोग्यवस्थासमास्थातकानि जातानि । यथा च कमणा| मयोग्यवस्थायामुदयाभावस्तेषां स्थितिं स्वरूपं प्रतीत्य समयोनां विधत्ते सामान्यतः सत्ताकालं प्रतीत्यायोग्यवस्थासमानामिति । तस्मिँव सयोग्यवस्थाचरमसमये सूक्ष्मक्रियाप्रतिपातिध्यानं, सर्वाः किट्ट्यः, सद्वेद्यबन्धो, नामगोत्रयोरुदीरणा, योगः, शुक्ललेश्या, स्थित्यनुभागघातश्चेति सप्त पदार्था युगपद्रयवच्छिद्यन्ते । ततोऽनन्तरसमयेऽयोगिकेवली भवति । स च कर्मक्षपणाय व्युपरतक्रियमनिवृत्तिध्यानमारोहति । असावयोगिकेवली स्थितिघातादिरहितो यान्युदयवतीनि कर्माणि तानि स्थितिक्षयेणानुभवन् क्षपयति । यानि तु तदानीमनुदयवन्ति तानि वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयन् वेद्यमानप्रकृतिरूपतया च वेदयमानस्तावद्याति यावदयोग्यचस्थाद्विचरमसमयः । तस्मिँश्व द्विचरमसमये देवद्विकशरीरपञ्चकबन्धनपञ्चकसङ्घातपञ्चकसंस्थानपट्काङ्गोपाङ्गत्रय संहननषट्कवर्णादिविंश| तिपराघातोपघातागुरुलघुच्छ्वास विहायोगतिद्विकस्थिरास्थिरशुभाशुभ सुखरदुःखरदुर्भगप्रत्येकानादेयायशः कीर्त्तिनिर्माणापर्याप्त कनीचैर्गोत्रसातासातान्यतरानुदित वेदनीयरूपाणि द्विसप्ततिः कर्माणि स्वरूपसत्तामधिकृत्य क्षयमुपगच्छन्ति, चरमसमये स्तिबुकसंक्रमेणोदयवतीपु मध्ये संक्रम्यमाणत्वात् । चरमसमये चान्यतरवेदनीयमनुष्यत्रिकपञ्चेन्द्रिय जातित्रस सुभगादेय यशः कीर्त्तिपर्याप्तवादरतीर्थ करो चै गोत्ररू पाणां त्रयोदशप्रकृतीनां सत्ताव्यवच्छेदः । अन्ये त्वाहु:- मनुष्यानुपूर्व्या द्विचरमसमये व्यवच्छेद उदयाभावात् उदयवतीनां हि स्तिबुकसंक्रमाभावात् स्वरूपेण चरमसमये दलिकं दृश्यत एवेति युक्तस्तासां चरमसमये सत्ताव्यवच्छेदः, आनुपूर्वीणां च चतसृणामपि | क्षेत्रविपाकतयाऽपान्तरालगतावेवोदय इति न भवस्थस्य तदुदय संभव इत्ययोग्यवस्थाद्विचरमसमय एव मनुष्यानुपूर्व्याः सत्ताव्यवच्छेदः । तन्मते द्विचरमसमये त्रिसप्ततेः, चरमसमये च द्वादशानां सत्ताव्यवच्छेदः । ततोऽनन्तरसमये कर्मबन्धविमोक्षलक्षणसहकारिसमुत्थख aaka

Loading...

Page Navigation
1 ... 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490