Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1481
________________ योगनिरोधः कर्मप्रकृतिः ॥१६॥ | भागानाकर्षतीत्यर्थः। एवं तावत् किट्टीः करोति यावदन्तर्मुहूर्त्तचरमसमयः । तत्र प्रथमसमयकृताभ्यः किट्टिभ्यो द्वितीयसमयकृताः किट्टयोऽसंख्येयगुणहीनाः । गुणकारश्च पल्योपमासंख्येयभागः । एवं शेषेष्वपि समयेषु भावनीयम् । तथा चोक्तं कर्मप्रकृतिप्राभृते| "इत्थं अंतोमुहूत्तं किट्टीओ करेइ असंखेज्जगुणहीणाए सेढीए जीवपएसे य असंखेज्जगुणाए सेढीए ऊकडइ, किट्टीगुणकारो पलिऊवमस्स असंखेज्जइभागो ति" । प्रथमसमयकृताश्च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः। एवं द्वितीयादिसमयेष्वपि प्रत्येकमवगन्तव्याः। सर्वा अपि च किट्टयः श्रेण्यसंख्येयभागप्रमाणाः पूर्वस्पर्धकानामपूर्वस्पर्धकानां चासंख्येयभागमात्राः । किट्टिकरणावसानानन्तरं च | पूर्वस्पर्धकान्यपूर्वस्पर्धकानि च नाशयति । तत्समयादारभ्य चान्तर्मुहूतं यावत् किट्टिगतयोगो भवति । तथा चोक्तं-"किट्टिकरणे णिहिए तओ से काले पुवफगाणि अपुवफडुगाणि च णासेइ अंतोमुहत्तं फिटिगयजोगो भवद त्ति"। न चात्र किश्चिदपि करोति। ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भादन्तर्मुहर्तमात्रेण सूक्ष्मवाग्योगं निरुणद्धि । ततो निरुद्धसूक्ष्मवाग्योगोऽन्तर्मुहर्तमात्रं नान्यसूक्ष्मयोगनिरोधं प्रति प्रयत्नवान् भवति । ततोऽनन्तरसमये सूक्ष्मकाययोगोपष्टम्भात् मूक्ष्ममनोयोगमन्तर्मुहूर्तमात्रेण निरुणद्धि । ततः पुनरप्यन्तर्मुहूर्त्तमात्रमास्ते । ततः सूक्ष्मकाययोगवलान्सूक्ष्म काययोगमन्तर्मुहूतन निरुगद्धि । त च निरुन्धानः सूक्ष्मक्रियाप्रतिपातिध्यानमारोहति, तत्सामर्थ्याच्च वदनोदरादिविवरपूरणेन संकुचितदेहविभागवर्तिप्रदेशो भवति । आह च-"सूक्ष्मेण काययोगेन ततो निरुणद्धि सक्ष्म| वाङ्मनसे । भवति ततोऽसौ सूक्ष्मक्रियस्तदा किट्टिगतयोगः ॥१॥" तमपि स योग सूक्ष्म निरुरुन्सन् सर्वपर्ययानुगतम् । सूक्ष्मक्रिय मप्रतिपान्युपयाति ध्यानममनस्कम् ॥२॥” इत्यादि । सूक्ष्मकाययोगं च निरुन्धानः प्रथमसमये किट्टीनामसंख्येयान् भागान्नाशयति, एकस्तिष्ठति । द्वितीयसमये तस्यैवैकस्य भागस्योद्धरितस्य सम्बन्धिनोऽसंख्येयान् भागानाशयति एक उद्धरति । एवं समये समये किट्टीस्ता ॥१६॥

Loading...

Page Navigation
1 ... 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490