Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
CREDDOD
महतीमनुग्रहबुद्धिमास्थाय तत्रान्यत् पदमागमानुसारि प्रक्षिप्य कथयन्तु यथेदमत्र पदं समीचीन नेदमिति, न पुनरुपेक्षारूपाप्रसादस्तः कर्तव्यः । अत्र 'इय कम्मपयडीओ' इत्यादिना ग्रन्थेन प्रकरणस्य सर्वविन्मूलता ख्यापिता द्रष्टव्या। दृष्टिवादो हि भगवता साक्षादर्थतोऽभिहितः, सूत्रतस्तु सुधर्मस्वामिना, दृष्टिवादान्तर्गतं च कर्मप्रकृतिप्राभृतम् , तस्माचेदं प्रकरणमुद्धृतमिति परम्परया सर्वविन्मूलम् ॥५६॥
(उ०)-अथाचार्य औद्धत्यं परिहरन् बहुश्रुतानां प्रकरणार्थपरिभावने प्रार्थनां च कुर्वन्नत्र प्रकरणे उपादेयताबुद्धिमाधातुं परम्परया सर्वविन्मूलकतामाह-अल्पमतिनाऽपि सतैवमुक्तप्रकारेण गुरुचरणकमलं पर्युपासमानेन मया यथा श्रुतं तथा कर्मप्रकृतेदृष्टिवादैकदेशच| तुर्दशपूर्वस्थानेकवस्तुसमन्विताग्रायणीयाभिधद्वितीयपूर्वस्थविंशतिप्राभृतपरिमाणपश्चमवस्त्वेकदेश चतुर्विंशत्यनुयोगद्वारमयकर्मप्रकृत्या| ख्यचतुर्थप्राभृतादिदं प्रकरणं नीतमाकृष्टं, तदत्र यत्किमपि स्खलितमनाभोगकृतं भवेत् कृतप्रयत्नस्यापि छद्मस्थस्यावरणसामादना
भोगसंभवात् , तच्छोधयित्वाऽपनीय ये वरा उत्कलितबुद्धयतिशया दृष्टिवादज्ञास्ते प्रसादमास्थाय श्रुतानुसारि पदान्तरं प्रक्षिप्य कथ| यन्तु 'यथेदमत्र पदं सम्यक्, न विदमिति, न पुनरुपेक्षारूपोऽप्रसादस्तैः कर्त्तव्य इति प्रार्थना ॥५६।।। | जस्स वरसासणावयवफरिसपविकसियविमलमइकिरणा। विमलेति कम्ममइले सो मे सरणं महावीरो॥
. (चू०)-'जस्से'इ-महावीरो(र)स(स्स) 'वज(र)त्ति-वरं पहाणं सासणं तस्स अवयवेहिं पुट्ठा गमिया(पविगसिया) विमलमतिकिरणा होंति (ते)विमला(ली)करेंति कम्मेण मतिलिया कम्ममइला ते कम्ममइले णद्ध(ज)ति सं सासणं जस्स 'जे'(मे)त्ति-मज्झं 'सरण ति आहारे महावीरो त्ति ॥२७॥
NROKENCEO2
Loading... Page Navigation 1 ... 1482 1483 1484 1485 1486 1487 1488 1489 1490