Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1476
________________ SHORORSCIRCRACKERCrice ऽनन्तरसमये सूक्ष्मकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च, तदानीमसौ मूक्ष्म सम्पराय उच्यत ।। प्रागुक्ताश्चावलिकास्तृतीयकिट्टिगताः शेपीभूताः सर्वा अपि वेद्यमानासु परप्रकृतिषु स्तिबु कसंक्रमेण संक्रमयति, प्रथमद्वितीयकिट्टिगताश्च | | यथास्वं द्वितीयतृतीयकिट्टयन्तर्गता वेद्यन्ते। सूक्ष्मसम्परायश्च लोभस्य सूक्ष्मकिट्टीदयमानः सूक्ष्म किट्टिदलिकं समयोनावलिकाद्विकबद्धं १५ च प्रतिसमयं स्थितिघातादिभिस्तावत् क्षपयति यावत्सूक्ष्मसम्परायाद्धायाः संख्येया भागा गता भवन्ति, एकोऽवशिष्यते. ततस्तस्मिन् संख्येयभागे संज्वलनलोभं सर्वापवर्तनयाऽपवर्त्य मूक्ष्मसम्परायाद्धासमं करोति, सा चाद्याप्यन्तमुहूर्तमाना. ततः प्रभृति च मोहस्य | स्थितिघातादयो निवृत्ताः, शेषकर्मणां तु प्रवन्त एव, तां च लोभस्यापवर्तितां स्थितिमुदयोदीरणाभ्यां वेदयमानस्तावद्गतो यावत्समयाधिकावलिकामात्र शेपः । ततोऽनन्तरसमये उदीरणा स्थिता । तत उदयनैव केवलेन तां वेदयते यावच्चरमसमयः । तस्मिंश्व चरमसमये ज्ञानावरणपञ्चकदर्शनावरण चतुष्कयशाकीच्युचैगोत्रान्तरायपञ्चकरूपाणां पोडशकर्मणां बन्धव्यवच्छेदो मोहनीयस्योदयसत्ताव्यवच्छेदश्च भवति । ततोऽसावनन्तरसमये क्षीणकपायो जायते । तस्य च शेषकर्मणां स्थितिघातादयः प्राग्वत् प्रवर्तन्ते यावत् क्षीणकषायाद्धायाः संख्येया भागा गता भवन्ति, एकः संख्येयो भागोऽवतिष्ठते । तस्मिंश्च ज्ञानावरणपश्चकान्तरायपञ्चकदर्शनावरणचतुष्कनिद्राद्विकरूपाणां पोडशकर्मणां स्थितिसत्कर्म सर्वापवर्तनयाऽपवर्त्य क्षीणकषायाद्धासमं करोति, केवलं निद्राद्विकस्य स्वरूपापेक्षया समयन्यून सामान्यतः कर्मरूपतया तु तुल्यम् । ततो विचरमसमये निद्राद्विकस्य स्वरूपसत्तापेक्षया क्षयश्चतुर्दशानां प्रकृतीनां चरमसमये क्षयः । ततोऽनन्तरसमये केवली जायते, स च भगवान् जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतश्च देशोनपूर्वकोटि यावद्विहृत्य सर्वोऽपि समुद्घातादर्वागायोजिकाकरणमारभते । तत्करणानन्तरं च कश्चित् कर्मगां समीकरणाथ समुद्घातं गच्छति, यस्य वेदनीयादि कर्म : DOCTOR

Loading...

Page Navigation
1 ... 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490