SearchBrowseAboutContactDonate
Page Preview
Page 1475
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः क्षपकश्रेणिः ॥१५७|| ततोऽनन्तरसमये तृतीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं | शेषः । तस्मिन्नेव च समय मानस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयोनालिकाद्विकबद्धमेव, शेषस्य मायायां प्रक्षिप्तत्वात् । ततो मायायाः प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहर्त्तमात्रम् । संज्वलनमानस्य च बन्धादौ व्यवच्छिन्ने तस्य सम्बन्धि दलिक समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण मायायां सर्व प्रक्षिपति । मायाया अपि च प्रथमकिट्टिदलिकं द्वितीयस्थितिगतं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकाशेपं जातम् । ततोऽनन्तरसमये मायाया द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामात्रं शेषः । ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । तस्मिन्नेव च समये मायाया बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्याः समयोनावलिकाद्विकवद्धमात्रमेव, शेषस्य गुणसंक्रमेण लोभे प्रक्षिप्तत्वात् । ततोऽनन्तरसमये लोभस्य प्रथमकिट्टिदलिक द्वितीयस्थितिगत माकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तमुहर्तम् । सज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने तत्सम्बन्धि दलिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण सर्व लोभे संक्रमयनि । सज्वलनलोभस्य च प्रथमकिट्टिदलिकं प्रथमस्थितिकृतं वेद्यमानं समयाधिकावलिकामावशेष जातम् । ततोऽनन्तरसमये लोभस्य द्वितीयकिट्टिदलिंक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिती करोति वेदयते च, तां च वेदयमानस्तृतीयकिट्टिदलिक गृहीत्वा सूक्ष्मकिट्टीः करोति तावद्यावत् द्वितीयकिट्टिदलिकस्य प्रथमस्थितीकृत्य वेद्यमानस्य समयाधिकावलिकामाचं शेषः । तस्मिन्नेव च समये संचलनलोभस्य बन्धवादरकपायोदीरणानवमगुणस्थानकालानां युगपद्यवच्छेदो जायते । ततो ॥१५७॥ SHMA
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy