________________
DIODOGGAGAcacial
कस्योपरितनस्थितिगतदलिकस्य किट्टीः करोति, ताश्च परमार्थतोऽनन्ता अपि स्थूरजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कषायस्य तिस्रस्तिस्रः प्रथमा द्वितीया सृतीया चेति । इदं च क्रोधेन क्षपकश्रेणिं प्रतिपन्नस्य दृश्यम् । मानेन तु तां प्रतिपद्यमानस्य प्रायुक्तोलनविधिना क्रोधे क्षपिते सति शेषत्रयस्य प्राग्वत् नव किट्टीः करोति । मायया तु प्रतिपन्नस्य पूर्व क्रोधमानयोरुद्वलनविधिना क्षयं कृत्वा शेषद्विकस्य प्राग्वत् षट् किट्टीः करोति । लोभेन तु प्रतिपन्नस्योद्वलनविधिना क्रोधादित्रिकक्षयं कृत्वा लोभस्य किट्टित्रिकं करोति । एष किट्टीकरण विधिः । किट्टिकरणाद्धायां निष्ठितायां क्रोधेन प्रतिपन्नः क्रोधस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः । ततोऽनन्तरसमये द्वितीयकिहिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च तावद्यावत्समयाधिकावलिकामानं शेषः। ततोऽनन्तरसमये तृतीयकिट्टिदलिक द्वितीयस्थितिगतमाकृष्य प्रथमस्थिति करोति वेदयते च ताक्द्यावत्समयाधिकावलिकामानं शेषः । तिसृष्वपि चामृषु किद्विवेदनाद्धासूपरितनस्थितिगतं दलिक गुणसंक्रमेणापि प्रतिसमयमसंख्येयगुणवृद्धिलक्षणेन संज्वलनमाने प्रक्षिपति । तृतीयकिट्टिवेदनाद्धायाश्वरमसमये संज्वलनक्रोधस्य बन्धोदयोदीरणानां युगपद्वयवच्छेदः, सत्कर्मापि च तस्य समयोनावलिकाद्विकवर्द्ध मुक्त्वाऽन्यन्नास्ति, सर्वस्य माने प्रक्षिप्तत्वात् । ततोऽनन्तरसमये मानस्य प्रथमकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावदन्तर्मुहूर्त, क्रोधस्यापि च बन्धादौ व्यवच्छिन्ने सति तस्य सम्बन्धिद लिकं समयोनावलिकाद्विकमात्रेण कालेन गुणसंक्रमेण संक्रमयन् चरमसमये सर्व संक्रमयति । मानस्यापि च प्रथमकिट्टिदलिकं प्रथमस्थितीकृतं वेद्यमानं समयाधिकावलिकाशेषं जातम् । ततोऽनन्तरसमये मानस्य द्वितीयकिट्टिदलिकं द्वितीयस्थितिगतमाकृष्य प्रथमस्थितिं करोति वेदयते च तावद्यावत्समयाधिकावलि कामानं शेषः ।