________________
कर्म प्रकृतिः
।। १५६।।
Sakc
क्षपयति, पश्चात् षोडश कर्माणीति । ततोऽन्तर्मुहूर्त्तमात्रेण नवानां नोकषायाणां चतुर्णां च संज्वलनानामन्तरकरणं करोति । अन्तरकरणं च कृत्वा नपुंसक वेद दलिकमुपरितनस्थितिगतमुद्वलन विधिना क्षपयितुमारभते तच्चान्तर्मुहूर्त्तमात्रेण पल्योपमासंख्येयभागमात्रं भवति । ततः प्रभृति बध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रक्षिपति । तच्चैवं प्रक्षिप्यमाणं प्रक्षिप्यमाणमन्तर्मुहूर्त्तमात्रेण निःशेषं | क्षीयते, अधस्तनस्थितिदलिकं च यदि नपुंसक वेदेन क्षपक श्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं तत् तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुंसकवेदः । ततोऽन्तर्मुहूर्तेन कालेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षध्यते, ततः षड् नोकपायान् युगपत्क्षपयितुमारभते । ततः प्रभृति तेषामुपरितनस्थितिगतं दलिकं पुंवेदे न संक्रमयति, अपि तु संज्वलनक्रोधे । एवं चान्तर्मुहूर्त्तेन नोकपाय पट्को परितनदलिकं निःशेषतः क्षीणं, तत्समय एव च पुंवेदस्य बन्धोदयोदीरणोच्छेदः समयोनावलिकाद्वयबद्धं मुक्त्वा शेषद लिकक्षयश्थ, इदं च पुंवेदिनः प्रारम्भकस्य ज्ञेयम् । यदा तु नपुंसकवेदी प्रारम्भकस्तदा प्रथमं स्त्रीवेदनपुंसक वेद युगपत्क्षपयति, तत्क्षयसमय एव च वेदबन्धव्यवच्छेदः । ततः पुंवेदहास्यपदके युगपत्क्षपयति । यदा तु स्त्रीवेदी क्षपक श्रेणिप्रारम्भकस्तदा प्रथमं नपुंसक वेदं ततः स्त्रीवेदं क्षपयति, तत्क्षयसमकालमेव च पुंवेदबन्धव्युच्छेदः, ततः पुंवेदहास्यपट्कयोर्युगपत्क्षयः । अथ पुंवेदिनः प्रस्तुतमभिधीयते - क्रोधं वेदयमानस्य पुंवेदिनः क्रोधाद्वाया भागत्रयं भवेत् - अश्वकर्णकरणाद्धा किकिरणाद्वा किट्टवेदनाद्वा च । तत्राश्वकर्णकरणाद्धायां वर्त्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि संज्वलनचतुष्कस्याप्यन्तरकरणेनोपरितनस्थितौ करोति । अस्यां चाद्धायां वर्त्तमानः पुंवेदमपि समयोनद्वयावलिकारूपेण कालेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति । एवं क्षीणपुरुषवेद: अश्वकर्णकरणाद्धासमाध्यनन्तरं किट्टिकरणाद्धायां प्रविष्टः सन् संज्वलनचतु
क्षपकश्रेणिः
॥१५६॥