SearchBrowseAboutContactDonate
Page Preview
Page 1472
Loading...
Download File
Download File
Page Text
________________ 22ORCEDOSDO ४. यत 'मणि' ति-मनस इष्टं, या 'अणिटुं'-ति निष्ठा पयवसानं तद्रहितं सुखं परमपदप्राप्तिभाव्यव्यावाधलक्षणमुपयन्ति प्राप्नुवन्ति । तथाहि-करणाष्टकादिपरिज्ञानवन्तस्तथातथापरिणामयुक्तं कर्मजालमेव दुरन्तदुःखज्वलनज्वालावलीढसंसारकारणं निश्चिन्वन्तस्तत्क्षयाय | पारमेश्वरीमाज्ञामास्थाय सम्यग्यतमाना इच्छायोगशास्त्रयोगपरिपाकोपनतशुद्धात्मस्वभावलाभास्तदनन्तरप्रसृमरसामर्थ्ययोगातिशयदहनदग्धनिःशेपान्तरायाः परमधर्मसन्न्यासपवित्रा महात्मानः क्षपक श्रेणिमपि प्रारमन्ते । तत्र चायं क्रमः-- ___ इह यः क्षपकश्रेणिप्रस्थापकः सोऽवश्यं मनुष्यो वर्षाष्टकस्योपरि वर्तमानः उनमसंहननी शुभध्यानोऽविस्तसम्यग्दृष्टिदेशविरतप्रमताप्रमत्तमयतानामन्यतमः, केवलं यद्यप्रमत्तसंयतः पूर्ववित्तदा शुक्लध्यानोपगतः, शेपस्तु सर्वोऽपि धर्मध्यानोपगतः। तत्र क्षपकश्रेणिमारोहन प्रथमतोऽनन्तानुबन्धिनःक्षपयति, तद्विधिश्च निःशेषः प्रागुक्त एवेति न भूय उच्यते । क्षीणसप्तकश्चाबद्धायुश्चारित्रमोहनीयक्ष. | याय यतमानो यथाप्रवृत्तादिकरणत्रयं करोति । तत्र यथाप्रवृत्तकरणमप्रमत्तगुणस्थाने, अपूर्वकरगमपूर्वकरणगुणस्थाने, अनिवृत्तिकरणम| निवृत्तिवादरसम्परायगुणस्थाने। तत्रापूर्वकरणे स्थितिघातादिभिर्मध्यमकपायष्टक तथा क्षपयति यथाऽनिवृत्तिकरणाद्धाप्रथमसमये तत्पल्योपमासङ्ख्थेयभागमात्रस्थितिकं भवति, अनिवृत्तिकरणाद्धायाश्च सङ्ख्ययेषु भागेषु गतेषु सत्सु स्त्यानद्धित्रिकनरकतिकतिर्यद्रिकाद्यजातिचतुष्टयस्थावरातपोद्योतसूक्ष्मसाधारणानां पोडशप्रकृतीनामुलनासंक्रमेणोद्वल्यमानानां पल्योपमासङ्खयेयभागमात्रा स्थितिभवति । ततो बध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीगानि भवन्ति । इह मध्यमकपायाष्टकं प्रागेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं, केवलमपान्तराल एव पूर्वोक्तं प्रकृतिपोडशक क्षपितं, ततः पश्चात्तदपि | कपायाष्टकं मुहर्तमात्रेण क्षपयति, एप सूत्रादेशः । अन्ये बाहुः-पोडशकर्माण्येव पूर्व क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कपायान्
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy