Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
| बादरपर्याप्तस्य सर्वे भगा एकोनत्रिंशत् । संज्ञिपर्याप्तस्य चतुर्विंशतिवर्जानि सर्वाण्यप्युदयस्थानानि । चतुर्विशत्युदय एकेन्द्रियाणामेवेति तत्प्रतिषेधः। उदयस्थानभङ्गाश्च देवनारकर्तियमनुष्यानधिकृत्य यथाऽधस्तादुक्तास्तथैवात्रापि भाव्याः । पर्याप्तद्वित्रिचतुरिन्द्रियासंज्ञिनामेकविंशतिषविंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशदेकत्रिंशद्र्पाः पहुदया भवन्ति । तत्र द्वित्रिचतुरिन्द्रियाणां यथाऽधस्ताद्भङ्गास्तथानापि भाव्याः । यथा च सामान्यतियपञ्चेन्द्रियाणामधस्तादुक्तास्तथाऽसंज्ञिनामपि । नवरं सर्वेषामप्यकविंशतौ षड्विंशतौ च प्रत्येकमपर्यातपदाश्रितो य एकैको भङ्गः स इह न वाच्यः, पर्याप्तानामेवेह चिन्त्यमानत्वात् । सत्तास्थानान्यायेषु त्रयोदशसु जीवस्थानेषु पञ्च | पञ्च, तत्र त्रीण्यध्रुवसंशनि द्विनवतिरष्टाशीतिश्च। तत्राष्टसप्ततिः सूक्ष्मवादरैकेन्द्रियेषु तेजोवायुवाद्येषु चतुषइयेषु, तेजोवायुभवावृत्तेषु | चकविंशतिचतुर्विंशत्युदययोः, द्वीन्द्रियादिषु तु तेजोवायुभवादुद्वृत्तेषु एकविंशतिचतुर्विशत्युदययोः प्राप्यते, न शेषेषूदयेपु । संज्ञिनस्तु गुणस्थानक्रमेण द्वादशापि सत्तास्थानानि नाम्नः प्रागुक्तदिशा भावनीयानि । ____ अथ गत्यादिषु बन्धादिस्थानविषयसत्पदप्ररूपणा क्रियते । तत्र नारकतिर्यक्सुरगतिषु कर्माणि बध्यन्ते सप्ताष्टौ वा, तत्रायुर्वन्ध| कालेऽष्टौ, शेषकालं सप्त । उदये च अष्टावेव । उदीर्यन्ते सप्ताष्टौ वा, तत्र स्वस्वायुःपर्यन्तावलिकायां नोदीर्यत इति सप्त, शेषकालं त्वष्ट उदीरणानि । सन्ति चैता तिसृषु गतिष्वष्टैव प्राप्यन्ते, न तु कदापि सप्त चत्वारि वा, तत्र श्रेण्यादिप्रतिपत्त्यभावात् , मनुष्यगताविन्द्रियद्वारे पञ्चन्द्रियाणां कायद्वारे त्रसानां गुणस्थानाभिहितं द्रष्टव्यं, तच्चेदं-मिश्रं वर्जयित्वा सप्तमगुणस्थानं यावत्सप्तानामष्टानां वा बन्धः। तत्रायुर्वन्धकाले सप्ताना. शेषकालं त्वष्टानाम् । मिश्रापूर्वकरणानिवृत्तिबादरेषु सप्तानामेव, तेषामतिविशुद्धत्वेनायुबन्धासंभवात् । सू|क्ष्मसम्पराये पण्णां बन्धः, तत्र मोहस्याप्यबन्धात् । ततः परं त्रिषु गुणस्थानेष्वेकस्यैव वेदनीयस्य बन्धः । तथा सूक्ष्मसम्परायं यावदष्टाना
Loading... Page Navigation 1 ... 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490