Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
DORRIDOSH
सूक्ष्मैकेन्द्रियेषु भवन्ति । असंज्ञिसंज्ञिनोरपि लब्ध्यपर्याप्तयोरेतान्येव पञ्च बन्धस्थानानि, अपर्याप्तानां सर्वेषां तियअनुष्यप्रायोग्यस्यैव
बन्धात् । तानि च पञ्च बन्धस्थानानि तिर्यअनुष्यप्रायोग्याणि यथाऽधस्तादुक्तानि तथा भाव्यानि । सूक्ष्मवादरैकेन्द्रिययोरपर्याप्तयो-13 M) रेकविंशतिश्चतुर्विंशतिश्चेति द्वावुदयो। तत्र सूक्ष्मापर्याप्तस्यैकविंशतिरियं-तिर्यग्दिकं तेजसकामणे अगुरुलघु वर्णचतुष्टयमेकेन्द्रियजातिः
स्थावरसूक्ष्मापर्याप्तानि स्थिरास्थिरे शुभाशुभे दुर्भगमनादेयमयश-कीर्तिनिर्माणमिति । एपा चापान्तरालगतिस्थस्याप्यते । अत्र चैक एव भङ्गः, अपर्याप्तस्य परावर्तमानशुभप्रकृतीनामनुदयात् । बादरापर्याप्तस्याप्पेपैवैकविंशतिः, नवरं सूक्ष्मस्थाने बादरं वाच्यं, तत्रापेक एव भङ्गः । उभयोरपि तस्यामेकविंशती औदारिकशरीरहुण्डोपघातप्रत्येकसाधारणकतररूपप्रकृतिचतुष्टयप्रक्षेपे तिर्यगानुपूाश्चापनयने चतुर्विंशतिः । अत्र प्रत्येकसाधारणाभ्यां सूक्ष्मापर्याप्तस्य बादरापर्याप्तस्य च प्रत्येकं द्वौ भङ्गो । विकलेन्द्रियसंझ्यसंज्ञिनां चापर्याप्तानामिमे द्वे उदयस्थाने-एकविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरपर्याप्तद्वीन्द्रियाणामियं-तैजसं कार्म गमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तियरिद्वकं द्वीन्द्रियजातिस्त्रसबादरापर्याप्तानि दुर्भगानादेयायश-कीर्तय इति । एषा चैकविंशतिरन्तरालगति| स्थानां ज्ञेया । इयं च सर्वाऽप्रशस्तपदेत्येक एव भङ्गः। ततः शरीरस्थस्यौदारिकद्विकहुण्डसेवाभ्रेपघातप्रत्येकलक्षणप्रकृतिषद्कप्रक्षेपे | तिर्यगानुपूाश्चापनयने षविंशतिः । अत्राप्येक एव भङ्गः। एवं त्रीन्द्रियादीनामपि वाच्यम् । तदेवमपर्याप्तद्वीन्द्रियादीनामुदयस्थानाश्रितो द्वौ द्वौ भङ्गो, केवलमपर्याप्तसंजिनश्चत्वारः, यतो द्वावपर्याप्तसंज्ञिनस्तिरश्चो द्वौ च मनुष्यस्पेति । तथा पर्याप्तसूक्ष्मैकेन्द्रियाणां चत्वार्युदयस्थानानि एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिश्च । तत्रैकविंशतिरियं-तैजसं कार्मणमगुरुलघु स्थिरास्थिरे शुभाशुभे वर्णादिचतुष्टयं निर्माणं तियरिद्वकं एकेन्द्रियजातिः स्थावरसूक्ष्मपर्याप्तदुर्भगानादेयायशाकीय इति । एषा चैकविंशतिः सूक्ष्मपर्याप्त
Loading... Page Navigation 1 ... 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490