Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1464
________________ NDONGRERAKAR वाच्यानि । सत्तास्थानान्येकेन्द्रियविकलेन्द्रियागां पञ्च, तद्यथा-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्च । पञ्चेन्द्रियाणां च द्वादशापि सत्तास्थानानि ।। | अथ जीवस्थानेषु बन्धोदयसत्तास्थानानि प्रतिपाद्यन्ते-तत्र ज्ञानावरणान्तरायदर्शनावरणानां बन्धोदयसत्तास्थानेषु ये भङ्गा मिथ्या| दृष्टौ भवन्ति त एवं पर्याप्तसंज्ञिपश्चेन्द्रियवर्जेषु शेषेषु त्रयोदशसु जीवस्थानेषु ज्ञेयाः । तत्र ज्ञानावरणस्यान्तरायस्य च प्रत्येकं पञ्चविधो | बन्धः, पञ्चविध उदयः, पञ्चविधा सत्ता । दर्शनावरणस्य नवविधो बन्धश्चतुर्विध उदयो नवविधा सत्ता, यद्वा नवविधो बन्धः पश्चविध उदयो नवविधा सत्ता । संज्ञिपर्याप्ते तु ये गुणस्थानोक्ता भङ्गास्त एवान्यूनानतिरिक्ता वेदितव्याः। वेदनीयस्यायेषु त्रयोदशसु जीवस्थानेष्वादिमाश्चत्वारो भङ्गाः, तद्यथा-असातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धः सातस्योदयो द्वे सती, यद्वा | सातस्य बन्धोऽसातस्योदयो द्वे सती, यद्वा सातस्य बन्धः सातस्योदयो द्वे सती इति । गोत्रस्य त्रयो भङ्गाः, तद्यथा-नीचर्गोत्रस्य बन्धो नीचैर्गोत्रस्योदयो नीचैर्गोत्रं सत् , एष विकल्पस्तेजोवायुकायिकेषु लभ्यते । तद्भवादुवृत्तेष्वपि कियत्कालं नीचैगोवस्य बन्धः | नीचैर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचोत्रस्योदयो द्वे सती । शेषास्तु भङ्गा न भवन्ति, तेपूचैर्गोत्रस्योदयाभावात् । आयुर्विचारे तिर्यगायुरुदये ये नव भङ्गास्ते सर्वेऽप्यसंज्ञिपर्याप्त द्रष्टव्याः, तेषां मर्वेषामपि तस्मिन् संभवात् । एकेन्द्रियाणां विकलेन्द्रियाणां च पर्याप्तापर्याप्तानां त एव सुरनारकाश्रितभङ्गचतुष्टयरहिताः पञ्च भङ्गा द्रष्टव्याः, तेषां देवनारकायुर्वन्धाभावात् । असंज्ञिन्यपर्याप्ते तिरश्चि मनुष्ये चैत एव पञ्च पञ्च भङ्गा अन्यूनानतिरिक्ता द्रष्टव्याः । तथा मनसा पर्याप्तेऽष्टाविंशतिरप्यायुपो भङ्गा ज्ञेयाः । मनसाऽपर्याप्त संज्ञिनि पञ्च मनुष्ये पश्च तिरश्चीति सर्वसंख्यया दश भङ्गाः, एते लब्ध्यपर्याप्तके । तथा देवनारकाणां करणापर्याप्ता AREIODSCARDOIROOM

Loading...

Page Navigation
1 ... 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490