Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
कर्मप्रकृतिः ॥१५२॥
जीवस्थानेषु | बन्धादि स्थानानि
नामेकैको भङ्गः। सर्वसंख्ययाऽपर्याप्ते संझिमि द्वादश। मोहनीयस्य बन्धोदयसत्तास्थानानि संनिनः पर्याप्तस्य सर्वाण्यपि सप्रमेदानि यथाऽधस्तादुक्तानि तथा वाच्यानि । बादरैकेन्द्रियविकलेन्द्रियासंक्षिपञ्चेन्द्रियेष्वादिमौ द्वौ बन्धौ-द्वाविंशतिरेकविंशतिश्च । इमौ च यथाऽधस्तादुक्तौ तथा ज्ञेयौ । नवरमेकविंशतिः करणापर्याप्तावस्थायां द्रष्टव्या । पर्याप्तापर्याप्तमूक्ष्मापर्याप्तबादरद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियासंज्ञिसंज्ञिरूपेष्वष्टसु जीवस्थानेषु द्वाविंशतिरेको बन्धः । स च सप्रभेदः प्राग्वद्वाच्यः । एतेष्वेवाष्टसु त्रीण्युदयस्थानानि भवन्ति, तद्यथा-अष्ट नव दश चेति । यस्तु सप्तकमुदयस्थानमनन्तानुवन्ध्युदयरहितं तन्त्र प्राप्यते, तेषामवश्यमनन्तानुबन्ध्युदयसहितत्वात् । वेदश्च तेषामुदयागतो नपुंसकवेद एव, न स्त्रीनृवेदौ । ततोष्टोदयेऽष्टौ भङ्गाः, नवोदये षोडश, दशोदयेऽष्टौ, सर्वसंख्यया प्रत्येकं द्वात्रिंशद्भङ्गाः। एतान्येव त्रीणि सप्तकयुतानि पर्याप्तधादरैकेन्द्रियविकलेन्द्रियासंज्ञिरूपेषु पञ्चसु चत्वायुदयस्थानानि ७-८-९ |-१० । तत्र सासादने सप्ताष्टौ नव चेति त्रीणि । मिथ्यादृष्टावष्टादीनि त्रीणि । वेदश्चैतेषामुदयप्राप्तो नपुंसकवेद एव । ततश्चतुर्विंश|तिस्थाने भङ्गानामष्टकं द्रष्टव्यं, तेन सासादने मिथ्यादृष्टौ च प्रत्येकं द्वात्रिंशद्भङ्गाः । एतेषु पञ्चकाष्टकरूपेषु त्रयोदशसु जीवस्थानेषु त्रीणि त्रीणि सत्तास्थानानि-अष्टाविंशतिः सप्तविंशतिः पड्विंशतिश्च । तत्रापि चादरैकेन्द्रियादिषु पञ्चसु सासादनभावापन्नेषु अष्टा. | विंशतिरेवैकं सत्तास्थानम् । संज्ञिनि तु करणापर्याप्ते कस्मिंश्चित्सप्तदशबन्धोऽपि पडादीनि च चत्वायुदयस्थानानि चतुर्विशत्येकविंशतिरूपाण्यपि च सत्तास्थानानि ज्ञेयानि । नामकर्मणः संज्ञिनि पर्याप्तऽष्टावपि बन्धस्थानानि, तानि च प्रारदाच्यानि । असंज्ञिनि पर्याप्ते आदिमानि पट् बन्धस्थानानि २३-२५-२६-२८-२९-३० । असंज्ञिपश्चन्द्रियाणां पर्याप्तानां हि नरकगतिदेवगतिमायोग्यबन्धोऽपि भवतीत्यष्टाविंशतिरपि बन्धस्थानं लभ्यते । तान्येवाष्टाविंशतिहीनानि २३-२५-२६-२९-३० पश्च पर्याप्तापर्याप्तविकलेन्द्रियवादर
७
Loading... Page Navigation 1 ... 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490