Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1459
________________ कर्मप्रकृतिः ॥१४९॥ तिरश्चां बन्धादिस्थानानि संवेधश्च | एकोनाशीतिः पञ्चसप्ततिरष्टौ च । तत्राये द्वे द्विचरमसमयं यावल्लभ्येते, चरमसमयेऽष्टौ । नवोदये त्रीणि सत्तास्थानानि-अशीतिः | षट्सप्ततिनव च । तत्राद्ये द्वे द्विचरमसमयं यावत् , चरमसमये नत्र । तदेवं गुणस्थानेषु नाम्नो वन्धोदयसत्तास्थानानि अपश्चितानि । ___अथ गतिषु प्रपञ्च्यते-तत्र नैरयिकाणां द्वे बन्धस्थाने-एकोनविंशत्रिंशच्च । तत्रैकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यपञ्चेन्द्रियप्रायोग्या वा, त्रिंशत्तिर्यपञ्चन्द्रियप्रायोग्या सोद्योता, मनुष्यगतिप्रायोग्या तु जिननामसहिता । भङ्गाश्च प्रागुक्ताः सर्वेऽपि द्रष्टव्याः । | उदयस्थानानि पञ्च-एकविंशतिः पञ्चविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् । एतानि सप्रभेदानि प्राग्वद्वाच्यानि । त्रीणि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिश्च । एकोननवतिबद्धजिननाम्नो मिथ्यात्वगतस्य नरकाभिमुखस्यावसेया। विनवतिस्तु न संभवति, जिनाहारकसत्कर्मणो नरकेष्वनुत्पादात् । अथ संवेध उच्यते-नरयिकस्य तिर्यगातिप्रायोग्यामेकोनत्रिंशतं बनतः पञ्चो. | दयस्थानानि, तानि चानन्तरमेवोक्तानि । तेषु प्रत्येक वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । तीर्थकरसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धासंभवादेकोननवतिर्न लभ्यते । मनुष्यगतिप्रायोग्यामेकोनत्रिंशतं बध्नतः पञ्चखप्युदयस्थानेषु त्रीण्यपि ९२-८९-८८ सत्तास्थानानि भवन्ति । जिननामसत्कर्मा नरकेघूत्पन्नो यावन्मिथ्यादृष्टिस्तावदेकोनत्रिंशतं, सम्यक्त्वं तु प्रतिपन्नस्त्रिंशतं बध्नाति, जिननाम्नोऽपि बन्धात् । तिर्यग्गतिप्रायोग्यां सोद्योतां त्रिंशतं बनतः पश्चस्वप्युदयस्थानेषु प्रत्येकं द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । एकोननवत्यभावभावना प्राग्वत् । मनुष्यगतिप्रायोग्यां जिननामसहितां बनतः पञ्चस्वप्युदयस्थानेषु प्रत्येकमेकं सत्तास्थानं-एकोननवतिः। सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि त्रिंशत् । अथ तिरश्चां बन्धादिस्थानान्युच्यन्ते तत्र । तिरवां षट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः पविंशतिरष्टाविंशतिरेकोनत्रिंश १४९॥

Loading...

Page Navigation
1 ... 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490