Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1458
________________ ॐCass भगसुस्वरादेययशः कीर्त्तिनिर्माणतीर्थकरोच्चर्गोत्र रूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्त प्रकृत्यनुभागमध्ये प्रवेशनेनोपह न्यते । समुद्घात माहात्म्यमेतत् । तस्य चोद्धरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः । पुनरप्येतस्मिन् समयेऽव - शिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्ततमभागं मुञ्चति । अत्रापि प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभागमध्य प्रवेशनेनावसेयः । ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य |चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते । प्रशस्तप्रकृत्यनुभागघातश्च पूर्ववदवसेयः । एवं स्थितिघातादि कुर्वतचतुर्थसमये स्वप्रदेशापूरितसमस्त लोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः । चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्ध्या यथाक्रमं संख्येया अनन्ताश्च भागाः क्रियन्ते । ततोऽवकाशान्तरसंहारसमये स्थिते: संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् | हन्ति, एकं मुञ्चति । एवमेतेषु पश्चसु दण्डादिस मयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये समये स्थितिकण्डकानुभागकण्डकघातनात् । अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति । पष्ठादिषु च समयेषु कण्डकस्यैकैकं शकलं

Loading...

Page Navigation
1 ... 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490