Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1460
________________ त्रिंशच । एतानि प्राग्वत्स भेदानि वाच्यानि । केवलमेकोनत्रिंशत्रिंशच तीर्थकराहारकद्विकसहिता न वाच्या, तिरश्च तद्वन्धासंभवात्।। नवोदयस्थानानि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । एतान्येकेन्द्रियविकलेन्द्रियसवैक्रियतिर्यपश्चेन्द्रियानधिकृत्य सभेदानि प्रारद्वाच्यानि । पश्च सत्तास्थानानि, तद्यथा-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्च । तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न संभवन्ति, तीर्थकरनाम्नः क्षपकश्रेण्याश्च तिक्ष्वभावात् । सम्प्रति संवेध उच्यते-त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नवोदयस्थानानि, तानि चानन्तरमेवोक्तानि । तत्रायेषु चतुर्यु २१-२४-२५-२६ प्रत्येक पश्च सत्तास्थानानि-नवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्चेति । इहाष्टसप्ततिस्तेजोवायुस्तद्भवावृत्तान् वाऽधिकृत्य ज्ञेया। शेषेषु तु सप्तविंशत्यादिषु पञ्चमूदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, सप्तविंशत्याद्युदयेषु हि नियमेन मनुष्यद्विकसंभवात् अष्टसप्तति वाप्यते । एवं पञ्चविंशतिषड्विंशत्येकोनविंशत्रिंशद्वन्धकानामपि वाच्यं, नवरमेकोनत्रिशतं | मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टाविंशतिबन्धकस्याष्टावुदयस्था नानि, तद्यथा-एकविंशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशतिषड्विंशत्यष्टाविंशसत्येकोनविंशत्रिंशद्रपाः पञ्चोदयाः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः। एकैकस्मि श्च द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्चां ज्ञेयो, तत्रापि ते एव द्वे द्वे सत्तास्थाने । त्रिंशदेकत्रिंशददयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ । एकैकस्भिश्च त्रीणि त्रीणि सत्तास्थानानि-द्विनवतिरयाशीतिः पडशीतिश्च । षडशीतिमिथ्यादृष्टीनां ज्ञेया, सम्यग्दृष्टीनामसंभवात, तेषामवश्यं देवद्विकादिवन्धभावात् । तदेवं सर्वबन्धोदयस्था-|

Loading...

Page Navigation
1 ... 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490