________________
त्रिंशच । एतानि प्राग्वत्स भेदानि वाच्यानि । केवलमेकोनत्रिंशत्रिंशच तीर्थकराहारकद्विकसहिता न वाच्या, तिरश्च तद्वन्धासंभवात्।। नवोदयस्थानानि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पविंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच । एतान्येकेन्द्रियविकलेन्द्रियसवैक्रियतिर्यपश्चेन्द्रियानधिकृत्य सभेदानि प्रारद्वाच्यानि । पश्च सत्तास्थानानि, तद्यथा-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्च । तीर्थकरसम्बन्धीनि क्षपकसम्बन्धीनि च सत्तास्थानानि न संभवन्ति, तीर्थकरनाम्नः क्षपकश्रेण्याश्च तिक्ष्वभावात् । सम्प्रति संवेध उच्यते-त्रयोविंशतिबन्धकस्य तिरश्च एकविंशत्यादीनि नवोदयस्थानानि, तानि चानन्तरमेवोक्तानि । तत्रायेषु चतुर्यु २१-२४-२५-२६ प्रत्येक पश्च सत्तास्थानानि-नवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्चेति । इहाष्टसप्ततिस्तेजोवायुस्तद्भवावृत्तान् वाऽधिकृत्य ज्ञेया। शेषेषु तु सप्तविंशत्यादिषु पञ्चमूदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि, सप्तविंशत्याद्युदयेषु हि नियमेन मनुष्यद्विकसंभवात् अष्टसप्तति वाप्यते । एवं पञ्चविंशतिषड्विंशत्येकोनविंशत्रिंशद्वन्धकानामपि वाच्यं, नवरमेकोनत्रिशतं | मनुष्यगतिप्रायोग्यां बध्नतः सर्वेष्वप्युदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टाविंशतिबन्धकस्याष्टावुदयस्था
नानि, तद्यथा-एकविंशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशतिषड्विंशत्यष्टाविंशसत्येकोनविंशत्रिंशद्रपाः पञ्चोदयाः क्षायिकसम्यग्दृष्टीनां वेदकसम्यग्दृष्टीनां वा द्वाविंशतिसत्कर्मणां पूर्वबद्धायुषामवगन्तव्याः। एकैकस्मि
श्च द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्चेति । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिरश्चां ज्ञेयो, तत्रापि ते एव द्वे द्वे सत्तास्थाने । त्रिंशदेकत्रिंशददयौ सर्वपर्याप्तिपर्याप्तानां सम्यग्दृष्टीनां मिथ्यादृष्टीनां वाऽवसेयौ । एकैकस्भिश्च त्रीणि त्रीणि सत्तास्थानानि-द्विनवतिरयाशीतिः पडशीतिश्च । षडशीतिमिथ्यादृष्टीनां ज्ञेया, सम्यग्दृष्टीनामसंभवात, तेषामवश्यं देवद्विकादिवन्धभावात् । तदेवं सर्वबन्धोदयस्था-|