SearchBrowseAboutContactDonate
Page Preview
Page 1461
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१५॥ नापेक्षया सत्तास्थानानां द्वे शते अष्टादशाधिके २१८ । तथाहि-त्रयोविंशतिपञ्चविंशतिषड्विंशत्येकोनविंशत्रिंशद्वन्धेषु चत्वारिंशत्स. त्तास्थानानि, अष्टाविंशतिबन्धे चाष्टादश । मनुष्यगतो ___अथ मनुष्यगतौ बन्धादिस्थानान्युच्यन्ते । मनुष्याणामष्टौ बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः षड्विंशतिरष्टाविंशतिरेकोन | बन्धादि स्थानानि त्रिंशत्रिंशदेकत्रिंशदेका च । सर्वाण्यप्येतानि प्राग्वत्सभेदानि वाच्यानि, मनुष्याणां चतुर्गतिकप्रायोग्यबन्धसंभवात् । एकादशोदयस्था | संवेधश्च नानि-विंशतिरेकविंशतिः पञ्चविंशतिः षट्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत्रवाष्टौ च । एतानि च स्वभावस्थमनुष्यवैक्रियमनुष्याहारकसंयततीर्थकरातीर्थकरसयोगिकेवलिनोऽधिकृत्य प्राग्वद्भावनीयानि । एकादश सत्तास्थानानि-त्रिनवतिद्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिर्नवाष्टौ च । अष्टसप्ततिस्तु न संभवति, मनुष्याणामवश्यं मनुष्यद्विकसंभवात् । । अथ संवेध उच्यते । तत्र मनुष्यस्य त्रयोविंशतिबन्धकस्य सप्तोदयस्थानानि-एकविंशतिः पञ्चविंशतिः पड्विंशतिः सप्तविंशतिरष्टा| विंशतिरेकोनत्रिंशत्रिंशत् (च), शेषाः केवल्युदया इति न घटन्ते । पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियकारिणो वेदितव्यौ । एकैकस्मि श्चत्वारि सत्तास्थानानि-द्विनवतिरष्टाशीतिः षडशीतिरशीतिश्च, नवरं पञ्चविंशत्युदये सप्तविंशत्युदये च द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च । शेषाणि तु सत्तास्थानानि तीर्थकरक्षपकश्रेणिकेवलिशेषगतिप्रायोग्यानीति न संभवन्ति, सर्वसंख्यया चतुर्विंशतिः। एवं पञ्चविंशतिपरविशतिबन्धकानामपि वाच्यम् । मनुजगतिप्रायोग्यां तिर्यग्गतिप्रायोग्यां चैकोनविंशतं त्रिंशतं च बध्नतामप्येवमेव । अष्टा-10१५०॥ विंशतिबन्धकानां सप्तोदयाः-एकविंशतिः पञ्चविंशतिः पशितिः सप्तविंशतिरष्टाविंशतिरेकोनत्रिंशत् त्रिंशत् (च)। तत्रैकविंशतिषट्
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy