SearchBrowseAboutContactDonate
Page Preview
Page 1462
Loading...
Download File
Download File
Page Text
________________ MOISODOGGERecial विंशत्युदयावविरतसम्यग्दृष्टेः करणापर्याप्तस्य । पश्चविंशतिसप्तविंशत्युदयौ वक्रियसंयतस्याहारकसंयतस्य वा। अष्टाविंशत्येकोनविंशता-IN वविरतसम्यग्दृष्टीनां वैक्रियकारिणामाहारकसंयतानां च । त्रिंशत्सम्यग्दृष्टीनां मिथ्यादृष्टीनां वा । एकैकस्मिन् द्वे द्वे सत्तास्थाने-द्विनवतिरष्टाशीतिश्च, आहारकसंयतस्य द्विनवतिरेव । त्रिंशदुदये चत्वारि सत्तास्थानानि-द्विनवतिरेकोननवतिरष्टाशीतिः पडशीतिश्च । तत्रकोननवतिर्नरकगतिप्रायोग्यामष्टाविंशतिं वध्नतो मिथ्यादृष्टेरवसेया। सर्वसंख्ययाऽष्टाविंशतिबन्धे षोडश सत्तास्थानानि । देवगतिप्रा. | योग्यामेकोनत्रिंशतं तीर्थकरसहितां बध्नतः सप्तोदयस्थानानि, तानि चाष्टाविंशतिबन्धकानामिव ज्ञेयानि । नवरमिह त्रिंशदुदयः सम्यग्दृटीनामेव वाच्यः । सर्वेष्वपि चोदयस्थानेषु द्वे द्वे सत्तास्थाने-त्रिनवतिरेकोननवतिश्च, तत्राहारकसंयतस्य त्रिनवतिरेख । सर्वसंख्यया | चतुर्दश । आहारकसहितां त्रिंशतं बनतो द्वे उदयस्थाने-एकोनविंशत्रिंशच्च । तत्र यो नामाहारकसंयतोऽन्तिमकाले प्रमत्तस्त प्रतीत्यकोनत्रिंशत् , (अन्यत्रैकोनत्रिंशति) आहारकबन्धहेतोविशिष्टसंयमस्याभावात् । द्वयोरप्युदयस्थानयोः प्रत्येकमेकं सत्तास्थानं द्विनवतिः । एकत्रिंशद्वन्धकस्यैकमृदयस्थानं त्रिंशत् , एकं सत्तास्थानं त्रिनवतिः। एकविधवन्धकस्यैकमुदयस्थानं त्रिंशत् । अष्टौ सत्तास्थानानि| त्रिनवतिर्द्विनवतिरेकोननवतिरष्टाशीतिरशीतिरेकोनाशीतिः षट्सप्ततिः पञ्चसप्ततिश्च । सर्वबन्धोदयस्थानापेक्षया सत्तास्थानानि शतमेकोन | | (एक)पष्टथधिकम् । अबन्धे उदयसत्तास्थानयोमिथः संवेधः सामान्यसंवेधचिन्तायामिव ज्ञेयः। ____ अथ देवानां बन्धादिस्थानानि वाच्यानि । तत्र तेषां चत्वारि बन्धस्थानानि-पश्चविंशतिः पड्विंशतिरेकोनविंशत्रिंशत् । तत्र पञ्च-| | विंशतिः पविशतिश्च पर्याप्तबादरप्रत्येकसहितामेकेन्द्रियप्रायोग्यां बनतो ज्ञेया । अत्र स्थिरास्थिरशुभाशुभयशःकीय॑यश-कीर्तिभिरष्टौ | भङ्गाः । षविंशतिरातपोद्योतान्यतरसहिता भवति, ततोत्र भङ्गाः षोडश । एकोनत्रिंशन्मनुष्यगतिप्रायोग्या तिर्यग्गतिपायोग्या च KORDICATEDOODise
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy