________________
ॐCass
भगसुस्वरादेययशः कीर्त्तिनिर्माणतीर्थकरोच्चर्गोत्र रूपाणामेकोनचत्वारिंशतः प्रकृतीनामनुभागोऽप्रशस्त प्रकृत्यनुभागमध्ये प्रवेशनेनोपह न्यते । समुद्घात माहात्म्यमेतत् । तस्य चोद्धरितस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य पुनर्बुद्ध्या यथाक्रममसंख्येया अनन्ताच भागाः क्रियन्ते । ततो द्वितीये कपाटसमये स्थितेरसंख्येयान् भागान् हन्ति, एकोऽवशिष्यते, अनुभागस्य चानन्तान् भागान् हन्ति, एकं मुञ्चति । अत्राप्यप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेन प्रशस्तप्रकृत्यनुभागघातो द्रष्टव्यः । पुनरप्येतस्मिन् समयेऽव - शिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततस्तृतीये समये स्थितेरसंख्येयान् भागान् हन्ति, एकं मुञ्चति, अनुभागस्य चानन्तान् भागान् हन्ति, एकमनन्ततमभागं मुञ्चति । अत्रापि प्रशस्तप्रकृत्यनुभागघातोऽप्रशस्तप्रकृत्यनुभागमध्य प्रवेशनेनावसेयः । ततः पुनरपि तृतीयसमयावशिष्टस्य स्थितेरसंख्येयभागस्यानुभागस्य |चानन्ततमभागस्य बुद्ध्या यथाक्रममसंख्येया अनन्ताश्च भागाः क्रियन्ते । ततश्चतुर्थसमये स्थितेरसंख्येयान् भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्ति, एकोऽवशिष्यते । प्रशस्तप्रकृत्यनुभागघातश्च पूर्ववदवसेयः । एवं स्थितिघातादि कुर्वतचतुर्थसमये स्वप्रदेशापूरितसमस्त लोकस्य भगवतो वेदनीयादिकर्मत्रयस्थितिरायुषः संख्येयगुणा जाता, अनुभागस्त्वद्याप्यनन्तगुणः । चतुर्थसमयावशिष्टस्य च स्थितेरसंख्येयभागस्यानुभागस्य चानन्ततमभागस्य भूयोऽपि बुद्ध्या यथाक्रमं संख्येया अनन्ताश्च भागाः क्रियन्ते । ततोऽवकाशान्तरसंहारसमये स्थिते: संख्येयान् भागान् हन्ति, एकं संख्येयभागं शेषीकरोति, अनुभागस्य चानन्तान् भागान् | हन्ति, एकं मुञ्चति । एवमेतेषु पश्चसु दण्डादिस मयेषु प्रत्येकं सामयिकं कण्डकमुत्कीर्ण, समये समये स्थितिकण्डकानुभागकण्डकघातनात् । अतः परं षष्ठसमयादारभ्य स्थितिकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति । पष्ठादिषु च समयेषु कण्डकस्यैकैकं शकलं