Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1454
________________ 249% SỐ CavaScan तत्रोक्तं-"जो उचसम्म हिट्ठी उवसमसेढीप कालं करेइ सो पढमसमए चेव सम्मत्तपुंजं उदयावलिआए छोटूर्ण सम्मत्तपोग्गले | वेपइ, तेण न उचसमसम्मद्दिडी अपज्जत्तगो लब्भइ त्ति" । तचमत्रत्यं केवलिगम्यम् । षड्विंशत्युदयस्तिर्य अनुष्याणां क्षायिकवेदक| सम्यग्दृष्टीनां, औपशमिकसम्यग्दृष्टिश्च तिर्यङ्मनुष्येषु नोत्पद्यते इति त्रिविधदृष्टीनामिति नोक्तं, वेदकसम्यग्दृष्टिता च तिरश्चो द्वाविंश| तिसत्कर्मणो ज्ञेया। अष्टाविंशत्येकोनत्रिंशदुदयौ नैरयिकतिर्यडमनुष्यदेवानाम् । त्रिंशदुदयस्तिर्यपश्चेन्द्रियमनुष्यदेवानाम्, एकत्रिंशदुदयस्तिर्यपञ्चेन्द्रियाणाम् । भङ्गाः स्वीयस्वीयाः सर्वेऽपि द्रष्टव्याः । चत्वारि सत्तास्थानानि त्रिनवतिर्द्विनवतिरेकोननवतिरष्टा शीतिश्च । तत्र योऽप्रमत्तसंयतोऽपूर्वकरणो वा तीर्थकराहारकसहितामेकत्रिंशतं बट्टा पश्चादविरतसम्यग्दृष्टिदेवो वा जातः तमधिकृत्य |त्रिनवतिः। यस्त्वाहारकं बद्धा परिणामपरावृत्या मिथ्यात्वं गत्वा चतसृगामन्यतमस्यां गतावुत्पन्नस्तस्य तत्र गतौ भूयोऽपि सम्यक्त्वं प्रतिपन्नस्य द्विनवतिः। देवमनुष्येषु मध्ये मिथ्यात्वमप्रतिपन्नस्यापि विनवतिः प्राप्यते । एकोननवतिर्देवनैरयिकमनुष्याणामविरतसम्यग्दृष्टीनाम् । ते हि त्रयोऽपि तीर्थकरनामार्जयन्ति,तिर्यक्षु तीर्थकरनामसत्कर्मा नोत्पद्यत इति तदग्रहणम् । अष्टाशीतिश्चतुर्गतिकानामविरत| सम्यग्दृष्टीनाम् । अथ संवेध उच्यते-तत्राविरतसम्यग्दृष्टरष्टाविंशतिवन्धकस्याष्टावप्युदयस्थानानि, तानि तिर्यमनुष्यानधिकृत्य । तत्रापि पञ्चविंशतिसप्तविंशत्युदयौ वैक्रियतिर्यङ्मनुष्यानधिकृत्य,एकैकस्मिन्नुदयस्थाने द्विनवत्यष्टाशीत्यात्मके द्वे द्वे सत्तास्थाने। एकोनत्रिंशद्विधा | देवगतियोग्या नरकगतियोग्या च। तत्र देवगतियोग्या जिननामसहिता, तां च मनुष्या एवं बध्नन्ति । तेषामुदयस्थानानि सप्त, | तद्यथा-एकविंशतिः पञ्चविंशत्यादीनि त्रिंशदन्तानि च, मनुष्याणामेकत्रिंशन्न संभवति । एकै कस्मिन्नुदयस्थाने त्रिनवत्येकोननवत्यात्मके | द्वे द्वे सत्तास्थाने । मनुष्यगतिप्रायोग्यां चैकोनत्रिंशतं बध्नन्ति देवनैरयिकाः । तत्र नैरयिकाणामुदयस्थानानि पञ्च, तद्यथा-एकविंशतिः ZCARDICIENCॐ

Loading...

Page Navigation
1 ... 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490