Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1441
________________ कर्मप्रकृतिः | ॥१४०॥ ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यन्ते, ततः सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि स्युः | ५२९७, इयन्तो लेश्यागुणिता उदयभङ्गाः । उक्तं च- "तिगहीणा तेवन्ना सया उ उदयाण हुंति लेसाण" । अथैतत्पदसंख्या समानीयते - मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः, सासादने मिश्रे च द्वात्रिंशत्, अविरतसम्यग्दृष्टौ पष्टिः, सर्वसंख्यया द्विनवत्यधिकं शतम् । एते पभिर्लेश्याभिर्गुण्यन्ते, ततो द्विपञ्चाशदधिकान्येकादश शतानि स्युः ११५२ । तथा देशविरते द्विपञ्चाशत्, प्रमत्तेऽप्रमत्ते च चतुश्च त्वारिंशत्, सर्वसंख्यया चत्वारिंशं शतं जातं १४०, तच्च तिसृभिर्लेश्याभिर्गुण्यते, ततो जाता विंशत्यधिका चतुःशती ४२० । सर्वसंख्यया जातानि द्विनवत्यधिकानि पञ्चदश शतानि, एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातान्यष्टात्रिंशत्सहस्राणि द्वे शते चाष्टाधिके ३८२०८ । ततो द्विकोदयै कोदयपदान्येकोनत्रिंशत्प्रक्षिष्यन्ते, ततो जातान्यष्टात्रिंशत्सहस्राणि शतद्वयं च सप्तत्रिंशदधिकं ३८२३७ । उक्तं च-"अडतीस सहस्साई पयाण सय दो य सगतीसा" | अथ योगैः सह गुणनयोदयभङ्गा उदयपदानि च भाव्यन्ते - इह मिथ्यादृष्ट्यादिषु सूक्ष्मसम्परायान्तेषु द्विपञ्चाशचतु विंशतीनां ( ८४-४-८-८-८-८-४) द्वादशानां ( १२ ) चानिवृत्तौ द्विकोदयमङ्गानां पञ्चानां (५) चैकोदय भङ्गानां मीलने द्वादश शतानि पञ्चषष्टिश्रोदयभङ्गा भवन्ति १२६५ । तत्र वाग्योग चतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिध्यादृष्टयादिगुणस्थानेषु संभवन्तीति प्रागुक्तभङ्गा नवभिर्गुण्यन्ते, जातान्येकादश सहस्राणि त्रीणि शतानि पञ्चाशीतिश्च ११३८५ । तथा मिथ्यादृष्टवैक्रियकायोगेऽष्टापि चतुर्विंशतयः प्राप्यन्ते । वैक्रियमिश्र औदारिकमिथे कार्मणकाययोगे च प्रत्येकं चतस्रश्वतस्रः, यतः सप्तोदय एका, अष्टो दये द्वे, नवोदये चैकेति चतस्रः, अनन्तानुबन्ध्युदयरहिता इह न प्राप्यन्ते, पूर्व हि वेदकसम्यग्दृष्टिना सताऽनन्तानुबन्धिनो विसंयोज्य 22 aa योगगुणितोदयपदानि ॥१४०॥

Loading...

Page Navigation
1 ... 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490