Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1446
________________ DIGEROINSNGaokes तत्र मिथ्यादृष्टौ नाम्नः पट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः पड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशचेति । तत्रापर्याप्त केन्द्रिय-10 प्रायोग्य बध्नतस्त्रयोविंशतिः,तस्यां च बध्यमानायां बादरमूक्ष्मप्रत्येकसाधारणश्चत्वारो भङ्गाः। पर्याप्त केन्द्रियप्रायोग्यमपर्याप्तद्वित्रिचतुः-18 पञ्चन्द्रियतियङ्मनुष्यप्रायोग्य च बध्नतः पञ्चविंशतिः । तत्र पर्याप्त केन्द्रियप्रायोग्यायां पञ्चविंशतो बध्यमानायां भङ्गा विंशतिः। | अपर्याप्तद्वीन्द्रियादिप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्ग इति सर्वसंख्यया पञ्चविंशतिः। पर्याप्त केन्द्रियप्रायोग्यं बध्नतः | षविंशतिः, तस्यां च बध्यमानायां भङ्गाः षोडश । देवगतिप्रायोग्यं नरकगतिप्रायोग्यं च बध्नतोऽष्टाविंशतिः, तत्र देवगतिप्रायोग्यायामष्टाविंशतावष्टौ भङ्गाः, नरकगतिप्रायोग्यायां चैक इति सर्वसंख्यया नव । पर्याप्तद्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्यप्रायोग्यं | बध्नत एकोनत्रिंशत् । तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायामेकोनविंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः। तिर्यपञ्चेन्द्रियप्रायोग्यायां षट् चत्वारिंशच्छतान्यष्टाधिकानि ४६०८ । मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः । सर्वसंख्यया चत्वारिंशदधिकानि द्विनव तिशतानि ९२४० । देवगतिप्रायोग्या त्वेकोनत्रिंशत्तीर्थकरनामसहितेति मिथ्यादृष्टेन बन्धमायाति । पर्याप्तद्वित्रिचतुरिन्द्रियतियपश्चन्द्रियप्रायोग्य बनतस्त्रिंशत् , तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायां त्रिंशति वध्यमानायां प्रत्येकमष्टौ भङ्गाः । तिर्यपञ्चन्द्रियप्रायोग्यायां त्वष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८ । सर्वसंख्यया द्वात्रिंशदुत्तराणि षट्चत्वारिंशच्छतानि ४६३२। या च मनुष्यगतिप्रायोग्या जिननामसहिता त्रिंशत्, या च देवगतिप्रायोग्याऽऽहारकद्विकसहिता ते उभे अपि मिथ्यादृष्टेन बन्धमायातः । तथा मिथ्यादृष्टेनवोदयस्थानानि, तद्यथा-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत् । एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्रागुक्तानि तथाऽत्रापि वाच्यानि, केवलमाहारकसंयतानां वैक्रियसयतानां केव RANASOCIAL

Loading...

Page Navigation
1 ... 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490