Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1447
________________ मप्रकृतिः ।१४३॥ लिनां च सम्बन्धीनि न वाच्यानि, तेषाममिथ्यादृष्टित्वात् , सर्वसंख्यया मिथ्यादृष्टावुदयस्थानभङ्गाः सप्त सहस्राणि सप्त शतानि | त्रिसप्तत्यधिकानि ७७७३ । नामकर्मणि | तथा मिथ्यादृष्टेः षट् सत्तास्थानानि, तद्यथा-द्विनवतिरेकोननवतिरष्टाशीतिः षडशीतिरशीतिरष्टसप्ततिश्च । तत्र द्विनवतिश्चतुंर्ग- बन्धोदयतिकानामपि मिथ्यादृष्टीनां, एकोननवतिः प्राग्बद्धनरकायुष्कस्य वेदकसम्यग्दृष्टस्तीर्थकरनाम बध्ध्या परिणामपरावृत्त्या मिथ्यात्वं | सत्तास्थाना ४ नां विशेषः गतस्य नरकेषु समुत्पद्यमानस्यान्तर्मुहतं यावदुत्पत्तेरूद्धमन्तमुहर्त्तानन्तरं तु सोऽपि सम्यक्त्वं प्रतिपद्यते, अष्टाशीतिश्चतुर्गतिकानामपि मिथ्यादृष्टीनां, षडशीतिरशीतिश्चैकेन्द्रियेषु यथायोगं देवगतिप्रायोग्ये नरकगतिप्रायोग्ये चोद्वलिते सति लभ्यते, एकेन्द्रियभवादुद्धृत्य विकलेन्द्रियेषु तिर्यपञ्चन्द्रियेषु मनुष्येषु वा समुत्पन्नानां सर्वपर्याप्तिभावार्धमप्यन्तर्मुहत्तं यावल्लभ्यते, अष्टसप्ततिस्तेजोवायुनां मनुष्यद्विके उद्वलितेऽवसेया, तद्भवादुद्धृत्योत्पन्नानामन्तर्मुहूतं यावत्, परतो नियमेन मनुष्यद्विकबन्धसंभवात् । तदेवं सामान्येन मिथ्यादृष्टेबन्धोदयसत्तास्थानान्युक्तानि । अथ संवेध उच्यते-तत्र मिथ्यादृष्टेस्खयोविंशति बनतः प्रागुक्तानि नवाप्युदयस्थानानि ज्ञेयानि । नवरमेकविंशतिपञ्चविंशतिसप्तविंशत्यष्टाविंशत्येकोनत्रिंशत्रिंशद्रुपेषु पदमृदयस्थानेषु देवनैरयिकाश्रिता भङ्गा न प्राप्यन्ते, तेषां । त्रयोविंशत्यवन्धकत्वात् तस्या अपर्याप्तैकेन्द्रियप्रायोग्यत्वात् । सत्तास्थानानि पञ्च-द्विनवतिरष्टाशीतिः पडशीतिरशीतिरष्टसप्ततिश्चति । | तत्रैकविंशतिचतुर्विंशतिपश्चविंशतिषविंशत्युदयेषु पश्च सत्तास्थानानि । नवरं पञ्चविंशत्युदये तेजोवायुकायिकानधिकृत्याष्टसप्ततिः प्राप्यते । षविंशत्युदये तेजोवायुकायिकान् तद्भवाद्धृत्य विकलेन्द्रियतिर्यपञ्चन्द्रियेषु बोत्पन्नानाश्रित्य प्राप्यते । सप्तविंशत्यष्टा-18||१४३॥ विंशत्येकोनविंशत्रिंशदेकत्रिंशद्रूपेषूदयेषु अष्टसप्ततिवर्जानि चत्वारि । सर्वसंख्यया त्रयोविंशतिबन्धके चत्वारिंशत्सत्तास्थानानि । एवं | HDINDORE

Loading...

Page Navigation
1 ... 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490