Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
बन्धायोगात् । तदेवमुक्तो मिथ्यादृष्टेबन्धोदयसत्तासंवेधः। सम्पति सासादनस्य बन्धोदयसत्तास्थानान्युच्यन्ते-सासादनस्य त्रीणि बन्धस्यानानि-अष्टाविंशतिरेकोनत्रिंशत्रिंशच्चेति । तत्राष्टाविंशतिर्द्विधा-देवगतियोग्या नरकगतियोग्या (च)। तत्र द्वितीया सासादनस्य बन्धाऽनहीं,
आद्यायाश्च बन्धकास्तिर्यपञ्चेन्द्रिया मनुष्याश्च । तस्यां च बध्यमानायामष्टौ भङ्गाः। एकोनत्रिंशतं तिर्यपञ्चेन्द्रियप्रायोग्यां मनुकाव्यप्रायोग्यां वा सासादना एकेन्द्रिया विकलेन्द्रिया तिर्यपञ्चन्द्रिया मनुष्या देवा नैरयिकाश्च बध्नन्ति, न शेषाम् , अत्र भङ्गाश्चतुःषष्टि
शतानि, तथाहि-द्विविधामप्येकोनत्रिंशतं बध्नतः सासादना हुण्डं सेवातं च न बध्नन्ति, मिथ्यात्वोदयाभावात् । ततस्तिर्यपञ्चेन्द्रिय| प्रायोग्यामेकोनत्रिंशतं बध्नतः पञ्चभिः संस्थानः पञ्चभिः संहननैः शुभाशुभखगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःखराभ्यामादेयानादेयाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च भङ्गा द्वात्रिंशच्छतानि ३२००। इयन्त एवेत्थं मनुष्यगतिप्रायोग्यामपि बध्नतः ३२०० । सर्वसंख्यया चतुःषष्टिशतानि । त्रिंशतं च तिर्यपञ्चेन्द्रियप्रायोग्यामेव सोद्योतां सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यपञ्चेन्द्रिया मनुष्या देवा नैरयिका वा बध्नन्ति, न शेषां, तां च बध्नतां भङ्गाः प्राग्वत् द्वात्रिंशच्छतानि । सर्वबन्धस्थानभङ्गा अष्टोत्तराणि षण्णवतिशतानि ९६०८ । सासादनस्योदयस्थानानि सप्त, तथाहि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पड्विंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशत्युदय एकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानधिकृत्य, नरकेषु सासादनानुत्पत्तेस्तद्विषयक
विंशत्युदयालाभः । तत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तेन सह यशःकीय॑यशःकीर्तिभ्यां द्वावेव भङ्गो, न शेषाः, सूक्ष्मेष्वपर्याप्तेषु D] मध्ये सासादनस्यानुत्पादात् । अत एव विकलेन्द्रियाणां तिर्यपञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तेन सह य एकको भङ्गः
स इह न भवति, किं तु शेषा एव । ते च विकलेन्द्रियाणां प्रतिभेदं द्वौ द्वाविति षद्, तिर्यपञ्चेन्द्रियाणामष्टौ, मनुष्याणामष्टौ,
रखDecCEREAL
Loading... Page Navigation 1 ... 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490