Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1451
________________ कर्मप्रकृतिः GRA ॥१४५॥ सासादने नाम्नो बन्धोदयसत्तास्थानानि संवेঅধ PRODISODE देवानामष्टौ, सर्वसंख्ययैकविंशत्युदये द्वात्रिंशत् । चतुर्विशत्युदय एकेन्द्रियेषूत्पन्नमात्रस्य, अत्रापि चादरपर्याप्तेन सह यशाकीय॑यशःकीत्तिभ्यां द्वावेव भङ्गौ संभवतः, न शेषाः, सूक्ष्मेषु साधारणेषु तेजोवायुषु च मध्ये सासादनस्यानुत्पादात् । पञ्चविंशत्युदयो देवेषूत्पन्नमात्रस्य, तत्राष्टौ भङ्गाः, ते च स्थिरास्थिरशुभाशुभयशःकीय॑यश-कीर्तिपदैः प्रत्येयाः। पविंशत्युदयो विकलेन्द्रियतिर्यक्पञ्चेन्द्रियमनुष्येषु मध्ये उत्पन्नमात्रस्य, अत्राप्यपर्याप्तकसहित एकैको भङ्गोऽसंभवी, अपर्याप्तकमध्ये सासादनस्यानुत्पादात् , शेषास्तु सर्वेऽपि संभविनः, ते च विकलेन्द्रियाणां प्रत्येकं द्वाविति षट् , तिर्यपश्चेन्द्रियाणां द्वे शते अष्टाशीत्यधिके २८८, मनुष्याणामपि ते एव २८८, सर्वसंख्यया पद्दविंशत्युदये पञ्च शतानि न्यशीत्यधिकानि । सप्तविंशत्युदयाष्टाविंशत्युदयौ उत्पच्यनन्तरमन्तर्मुहूर्तानन्तरभाविनावुत्पत्यन्तरमुत्कर्षतः किश्चिदूनषडावलिकामात्रकालभाविनि सासादने न घटेते। एकोनत्रिंशदुदयो देवनैरयिकाणां स्वस्थानगतानां प्रथमसम्यक्त्वात्प्रच्यवमानानामाप्यते, तत्र देवस्याष्टौ नैरयिकस्य चक इति सर्वसंख्यया नव भङ्गाः । त्रिंशदुदयस्तिर्यग्मनुष्याणां पर्याप्तनां प्रथमसम्यक्त्वात्प्रच्यवमानानां देवानां वोत्तरवैक्रियस्थानां सासादनानां, तत्र तिर्यपश्चेन्द्रियाणां मनुष्याणां | च प्रत्येकं द्विपश्चाशदधिकान्येकादश शतानि ११५२, देवस्याष्टाविति सर्वसंख्यया द्वादशाधिकानि त्रयोविंशतिशतानि भङ्गाः २३१२ ।। एकत्रिंशदुदयस्तियपञ्चेन्द्रियाणां पर्याप्तानां प्रथमसम्यक्त्वात्प्रच्यवमानानां, अत्र भङ्गा एकादश शतानि द्विपञ्चाशदधिकानि ११५२, सर्वसंख्यया सप्तनवत्यधिकानि चत्वारिंशच्छतानि सासादनस्योदयभङ्गाः । सत्तास्थाने द्वे-द्विनवतिरष्टाशीतिश्च, तत्र द्विनवतिराहारक| चतुष्टयं बद्धोपशमश्रेणिमारुह्य प्रतिपततः सासादनभावमुपगतस्य, न शेषस्य, अष्टाशीतिश्चतुर्गतिकानामपि सासादनानाम् । ___ अथ संवेध उच्यते-जत्राष्टाविंशति बनतः सासादनस्य द्वे उदयस्थाने-त्रिंशदेकत्रिंशच । अष्टाविंशतिर्हि सासादनस्य बन्धयोग्या पा॥१४५॥

Loading...

Page Navigation
1 ... 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490