SearchBrowseAboutContactDonate
Page Preview
Page 1450
Loading...
Download File
Download File
Page Text
________________ बन्धायोगात् । तदेवमुक्तो मिथ्यादृष्टेबन्धोदयसत्तासंवेधः। सम्पति सासादनस्य बन्धोदयसत्तास्थानान्युच्यन्ते-सासादनस्य त्रीणि बन्धस्यानानि-अष्टाविंशतिरेकोनत्रिंशत्रिंशच्चेति । तत्राष्टाविंशतिर्द्विधा-देवगतियोग्या नरकगतियोग्या (च)। तत्र द्वितीया सासादनस्य बन्धाऽनहीं, आद्यायाश्च बन्धकास्तिर्यपञ्चेन्द्रिया मनुष्याश्च । तस्यां च बध्यमानायामष्टौ भङ्गाः। एकोनत्रिंशतं तिर्यपञ्चेन्द्रियप्रायोग्यां मनुकाव्यप्रायोग्यां वा सासादना एकेन्द्रिया विकलेन्द्रिया तिर्यपञ्चन्द्रिया मनुष्या देवा नैरयिकाश्च बध्नन्ति, न शेषाम् , अत्र भङ्गाश्चतुःषष्टि शतानि, तथाहि-द्विविधामप्येकोनत्रिंशतं बध्नतः सासादना हुण्डं सेवातं च न बध्नन्ति, मिथ्यात्वोदयाभावात् । ततस्तिर्यपञ्चेन्द्रिय| प्रायोग्यामेकोनत्रिंशतं बध्नतः पञ्चभिः संस्थानः पञ्चभिः संहननैः शुभाशुभखगतिभ्यां स्थिरास्थिराभ्यां शुभाशुभाभ्यां सुभगदुर्भगाभ्यां सुस्वरदुःखराभ्यामादेयानादेयाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च भङ्गा द्वात्रिंशच्छतानि ३२००। इयन्त एवेत्थं मनुष्यगतिप्रायोग्यामपि बध्नतः ३२०० । सर्वसंख्यया चतुःषष्टिशतानि । त्रिंशतं च तिर्यपञ्चेन्द्रियप्रायोग्यामेव सोद्योतां सासादना एकेन्द्रिया विकलेन्द्रियास्तिर्यपञ्चेन्द्रिया मनुष्या देवा नैरयिका वा बध्नन्ति, न शेषां, तां च बध्नतां भङ्गाः प्राग्वत् द्वात्रिंशच्छतानि । सर्वबन्धस्थानभङ्गा अष्टोत्तराणि षण्णवतिशतानि ९६०८ । सासादनस्योदयस्थानानि सप्त, तथाहि-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः पड्विंशतिरेकोनत्रिंशत्रिंशदेकत्रिंशच्च । तत्रैकविंशत्युदय एकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यदेवानधिकृत्य, नरकेषु सासादनानुत्पत्तेस्तद्विषयक विंशत्युदयालाभः । तत्रैकेन्द्रियाणामेकविंशत्युदये बादरपर्याप्तेन सह यशःकीय॑यशःकीर्तिभ्यां द्वावेव भङ्गो, न शेषाः, सूक्ष्मेष्वपर्याप्तेषु D] मध्ये सासादनस्यानुत्पादात् । अत एव विकलेन्द्रियाणां तिर्यपञ्चेन्द्रियाणां मनुष्याणां च प्रत्येकमपर्याप्तेन सह य एकको भङ्गः स इह न भवति, किं तु शेषा एव । ते च विकलेन्द्रियाणां प्रतिभेदं द्वौ द्वाविति षद्, तिर्यपञ्चेन्द्रियाणामष्टौ, मनुष्याणामष्टौ, रखDecCEREAL
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy