SearchBrowseAboutContactDonate
Page Preview
Page 1449
Loading...
Download File
Download File
Page Text
________________ एकोननवतिय नरकेपुत्पित्सोः संभविनी, न च नैरयिकस्य षड्विंशत्युदय इति तद्वर्जनम् । सप्तविंशत्युदयेऽष्टसप्त तवर्जानि पञ्च, | कर्मप्रकृतिः तत्रैकोननवतिः प्रागुक्तस्वरूपं नैरयिकमधिकृत्य, द्विनवतिरष्टाशीतिश्च देवनैरयिकमनुजविकलेन्द्रियतिर्यपश्चेन्द्रियानधिकृत्य, षडशी. नामकर्मणि बन्धोदयतिरशीतिश्चैकेन्द्रियविकलेन्द्रियतिर्यपञ्चेन्द्रियमनुष्यानधिकृत्य, अष्टसप्ततिस्तु न संभवति, तेजोवायुवर्जानामातपोद्योतान्यतरसहितानांY ॥१४४॥ नारकादीनां वा सप्तविंशत्युदयस्य भावात् , तेषां चाष्टसप्ततेर्मनुष्यद्विकबन्धावश्यकत्वेनासंभवात् । एतान्येव पश्चाष्टाविंशत्युदयेऽपि सत्तास्थाना नां विशेष: द्रष्टव्यानि, तत्रैकोननवतिद्विनवत्यष्टाशीतिभावना प्राग्वदेव, षडशीतिरशीतिश्च विकलेन्द्रियतिर्यपश्चेन्द्रियमनुष्यानधिकृत्यावसेथा । | एवमेकोनत्रिंशदुदयेऽप्येतान्येव सत्तास्थानानि भावनीयानि । त्रिंशदुदये चत्वारि-द्विनवतिरष्टाशीतिः पडशीतिरशीतिश्चेति । एतानि | विकलेन्द्रियतिर्यपश्चन्द्रियमनुष्यानधिकृत्य ज्ञेयानि । एकत्रिंशदुदयेऽप्येतान्येव चत्वारि, तानि विकलेन्द्रियतिर्यपश्चेन्द्रियानधिकृत्य |* द्रष्टव्यानि। सर्वसंख्यया मिथ्यादृष्टेरेकोनत्रिंशतं बध्नतः पञ्चचत्वारिंशत्सत्तास्थानानि । देवगतिप्रायोग्या या त्वेकोनत्रिंशत्सा मिथ्यादृशा न बध्यते, हेतुस्तत्रोक्त एव । तथा मनुष्यगतिदेवगतिप्रायोग्यवर्जा शेषां त्रिंशतं विकलेन्द्रियतिर्यपश्चन्द्रियप्रायोग्यां बध्नतः सामान्येन प्रागुक्तानि नवोदयस्थानानि, पञ्च च सत्तास्थानानि एकोननवतिवर्जानि एकोननवतिस्त्वेकोननवतिसत्कर्मणस्तिर्यग्गतिप्रायोग्यबन्धारम्भासंभवान्न संभवति, तानि च पश्च सत्तास्थानान्येकविंशतिचतुर्विंशतिपञ्चविंशतिषविंशत्युदयेषु प्राग्वद्भावनीयानि । सप्तविंश त्यष्टाविंशत्येकोनविंशत्रिंशदेकत्रिंशद्रपेषु पञ्चसूदयस्थानेष्वष्टसप्ततिवर्जानि चत्वारि चत्वारि सत्तास्थानानि । अष्टसप्ततिनिषेधहेतुश्च प्रागुक्त ॐएव स्मर्तव्यः । सर्वसंख्यया मिथ्यादृष्टेरिंशतं बध्नतश्चत्वारिंशत्सत्तास्थानानि । मनुजगतिदेवगतिप्रायोग्या च त्रिंशन्मिथ्यादृष्टेन बन्धः। ॥१४४॥ | मायाति, मनुजगतिप्रायोग्यायाविंशतो जिननाम्ना देवगतिप्रायोग्यायाश्चाहारकद्विकेन सहितत्वात् , जिननामाहारकद्विकयोश्च मिथ्यादृष्टे
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy