________________
DIGEROINSNGaokes
तत्र मिथ्यादृष्टौ नाम्नः पट् बन्धस्थानानि-त्रयोविंशतिः पञ्चविंशतिः पड्विंशतिरष्टाविंशतिरेकोनविंशत्रिंशचेति । तत्रापर्याप्त केन्द्रिय-10 प्रायोग्य बध्नतस्त्रयोविंशतिः,तस्यां च बध्यमानायां बादरमूक्ष्मप्रत्येकसाधारणश्चत्वारो भङ्गाः। पर्याप्त केन्द्रियप्रायोग्यमपर्याप्तद्वित्रिचतुः-18 पञ्चन्द्रियतियङ्मनुष्यप्रायोग्य च बध्नतः पञ्चविंशतिः । तत्र पर्याप्त केन्द्रियप्रायोग्यायां पञ्चविंशतो बध्यमानायां भङ्गा विंशतिः। | अपर्याप्तद्वीन्द्रियादिप्रायोग्यायां तु बध्यमानायां प्रत्येकमेकैको भङ्ग इति सर्वसंख्यया पञ्चविंशतिः। पर्याप्त केन्द्रियप्रायोग्यं बध्नतः | षविंशतिः, तस्यां च बध्यमानायां भङ्गाः षोडश । देवगतिप्रायोग्यं नरकगतिप्रायोग्यं च बध्नतोऽष्टाविंशतिः, तत्र देवगतिप्रायोग्यायामष्टाविंशतावष्टौ भङ्गाः, नरकगतिप्रायोग्यायां चैक इति सर्वसंख्यया नव । पर्याप्तद्वित्रिचतुरिन्द्रियतिर्यपञ्चेन्द्रियमनुष्यप्रायोग्यं | बध्नत एकोनत्रिंशत् । तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायामेकोनविंशति बध्यमानायां प्रत्येकमष्टौ भङ्गाः। तिर्यपञ्चेन्द्रियप्रायोग्यायां षट् चत्वारिंशच्छतान्यष्टाधिकानि ४६०८ । मनुष्यगतिप्रायोग्यायामप्येतावन्त एव भङ्गाः । सर्वसंख्यया चत्वारिंशदधिकानि द्विनव तिशतानि ९२४० । देवगतिप्रायोग्या त्वेकोनत्रिंशत्तीर्थकरनामसहितेति मिथ्यादृष्टेन बन्धमायाति । पर्याप्तद्वित्रिचतुरिन्द्रियतियपश्चन्द्रियप्रायोग्य बनतस्त्रिंशत् , तत्र पर्याप्तद्वित्रिचतुरिन्द्रियप्रायोग्यायां त्रिंशति वध्यमानायां प्रत्येकमष्टौ भङ्गाः । तिर्यपञ्चन्द्रियप्रायोग्यायां त्वष्टाधिकानि षट्चत्वारिंशच्छतानि ४६०८ । सर्वसंख्यया द्वात्रिंशदुत्तराणि षट्चत्वारिंशच्छतानि ४६३२। या च मनुष्यगतिप्रायोग्या जिननामसहिता त्रिंशत्, या च देवगतिप्रायोग्याऽऽहारकद्विकसहिता ते उभे अपि मिथ्यादृष्टेन बन्धमायातः ।
तथा मिथ्यादृष्टेनवोदयस्थानानि, तद्यथा-एकविंशतिश्चतुर्विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिरष्टाविंशतिरेकोनविंशत्रिंशदेकत्रिंशत् । एतानि सर्वाण्यपि नानाजीवापेक्षया यथा प्रागुक्तानि तथाऽत्रापि वाच्यानि, केवलमाहारकसंयतानां वैक्रियसयतानां केव
RANASOCIAL