SearchBrowseAboutContactDonate
Page Preview
Page 1445
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः १४२॥ NAGEDDISE यमिश्रकाययोगे वर्तमानस्य नपुंसकवेदोदयो न घटते, हेतुस्तूक्त एव, नपुंसकवेदेन चाष्टौ भङ्गा लभ्यन्ते, ते द्वात्रिंशता पदध्रुवकैगुण्य-2 न्ते, जाते द्वे शते षट्पञ्चाशदधिके २५६ । इयन्ति पदानि सासादने न संभवन्ति । तथाऽविस्तसम्यग्दृष्टेः कार्मणकाययोगिनो वैक्रि योगगुणियमिश्रकाययोगिनो वा स्त्रीवेदोदयो नोपपद्यते, अष्टषष्टिश्च तत्र पदध्रुवकाः, स्त्रीवेदेन चाष्टौ भङ्गा लभ्यन्ते, ततः षष्टिरष्टभिर्गुणिता तोदय पदानि श्चत्वारि शतान्यशीत्यधिकानि भवन्ति ४८० । एतानि च प्रत्येकं कार्मणे वैकियमिश्रे च न संभवन्तीति नव शतानि षष्टयधिकानि भवन्ति ९६० । तथाऽविरतसम्यग्दृष्टेरौदारिकमिश्रकाययोगे वर्तमानस्य स्त्रीनपुंसकवेदौ न भवतः, ताभ्यां च षोडश भङ्गा लभ्यन्ते, ततः षष्टिः पोडशभिर्गुणिता जातानि नव शतानि षष्टयधिकानि ९६० । सर्वसङ्ख्ययाऽविरतसम्यग्दृष्टावसंभवीनि पदानि विंशान्येकोनविंशतिशतानि १९२० । तथा प्रमत्तसंयतस्याहारके आहारकमिश्रे च स्त्रीवेदो न लभ्यते, प्रमत्तसंयते च पदध्रुवकाश्चतुश्चत्वारिंशत्, स्त्रीवेदेन चाष्टौ भङ्गा लभ्यन्ते, ततश्चतुश्चत्वारिंशदष्टगुणितास्त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२ स्युः, तानि चाहारकद्विकेन गुणितानि, सर्वसंख्यया प्रमत्तसंयतस्यासंभवीनि पदानि सप्त शतानि चतुरुत्तराणि ७०४ । अप्रमत्तसंयतस्याप्युक्तरीत्याऽऽहारककाययोगे त्रीणि शतानि द्विपञ्चाशदधिकानि ३५२ पदान्यसंभवीनि । सर्वसंख्ययाऽसंभवीनि पदानि पश्चपञ्चाशच्छतानि षट्त्रिंशदुत्तराणि, एतानि पूर्वराशेः शोध्यन्ते, ततो भवन्ति पञ्चनवतिसहस्राणि सप्त शतानि च सप्तदशोत्तराणि । एतावन्ति योगगुणितानि पदानि मोहनीयस्य सकलगुणस्थानकेषु भवन्ति । तदेवमुक्तो मोहनीयस्य प्रागनुक्तो विशेषः । ___ अथ नामकर्मणो विशेष उच्यते-तत्र नाम्नोऽव्यक्तबन्धोदयसत्तास्थानाभिधानप्रस्तावे गुणस्थानेषु गतिषु च बन्धोदयसत्तास्थानानि ॥१४२॥ यद्यपि सामान्यतः कथितानि तथापि नाप्रपश्चितज्ञः सामान्यतःकथितान्यवगन्तुं शक्यन्ते इति तेषामवबोधाय तानि प्रपञ्चतः कथ्यन्ते
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy