SearchBrowseAboutContactDonate
Page Preview
Page 1444
Loading...
Download File
Download File
Page Text
________________ * OGODSONOM तैश्चत्वारो गुणिता जाताश्चतुःषष्टिः, ते पूर्वराशौ क्षिप्यन्ते, जातानि द्वादश शतानि पोडशोत्तराणि । एवं मिश्रादिष्वपि पूर्वोक्तानुसारेगावगन्तव्यम् । अथ पदसङ्ख्या योगगुणिता भाव्यते-तत्र मिथ्यादृष्टेरष्टषष्टिः पदध्रुवकाः, ते त्रयोदशभिर्योगैर्गुण्यन्ते, जातान्यष्टौ | शतानि चतुरशीत्यधिकानि ८८४ । सासादने द्वात्रिंशत् पदध्रुवकाः, तेऽपि त्रयोदशभियोगर्गुण्यन्ते, जातानि पोडशाधिकानि चत्वारि शतानि ४१६ । मिश्रे द्वात्रिंशत् पदध्रुवकाः, ते दशभियोगेर्गुण्यन्ते, जातानि विंशानि त्रीणि शतानि ३२० । अविरतसम्यग्दृष्टौ षष्टिः पदध्रुवकाः, ते त्रयोदशभिर्योगेर्गुण्यन्ते, जातानि सप्त शतान्यशीत्यधिकानि ७८० । देशविरते द्विपश्चाशत्पदध्रुवकाः, ते चैकादशभियोगगुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । प्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते त्रयोदशभियोगर्गुण्यन्ते, जातानि पञ्च शतानि द्विसप्तत्यधिकानि ५७२ । अप्रमत्तसंयतेऽपि चतुश्चत्वारिंशत्पदध्रुवकाः, ते चैकादशभियोगैगुण्यन्ते जातानि चत्वारि शतानि चतुरशीत्यधिकानि ४८४ । अपूर्वकरणे विंशतिः पदध्रुवकाः, ते नवभियोगैर्गुण्यन्ते, जातमशीत्यधिकं शतं | १८० । सर्वसङ्ख्यया द्विचत्वारिंशच्छतान्यष्टाधिकानि ४२०८ । एतानि चतुर्विंशत्या गुण्यन्ते, जातं द्विनवत्यधिकनवशतोत्तरं लक्षं | १००९९२ । तथा द्विकोदयपदानि चतुर्विंशतिः, एकोदयपदानि च पञ्च, सर्वमीलने एकोनत्रिंशत् , ते नवभिोगेर्गुण्यन्ते, जातमेकषष्टयधिकं शतद्वयं, तच्च पूर्वराशौ क्षिप्यते, ततो जातमेकं लक्षं द्वादश च शतानि त्रिपञ्चाशदधिकानि १०१२५३ । अस्माञ्चल राशेरसंभवीनि पदानि शोध्यन्ते, तद्यथा-सप्तोदय एकः अष्टोदयौ द्वौ नवोदयश्चैक इत्येतेऽनन्तानुबन्ध्युदयरहिताः । तत्र सर्वसङ्घयया " द्वात्रिंशत्पदध्रुवकाः, ते वैक्रियमिश्रादियोगत्रये न संभवन्ति, हेतुः प्रागेवोक्तः, ततो द्वात्रिंशत्रिभिर्गुणिता जाता षण्णवतिः, ते चतुर्विशत्या गुण्यन्ते, जातानि त्रयोविंशतिशतानि चतुरुत्तराणि २३०४ । एतावन्ति पदानि मिथ्यादृष्टेरसंभवीनि । तथा सासादनस्य वैक्रि ARCRACTORSMOD
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy