Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
DDCORRHODOO
परिणामपरावृत्या मिथ्यात्वं गतेन भूयस्ते बद्धमारभ्यन्ते, तस्येव मिथ्यादृष्टवन्धावलिकामात्र काल यावदनन्तानुबन्ध्युदया न प्राप्यत,। अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते, जघन्यतोऽप्यन्तर्मुहूर्तावशेषायुष्क एवानन्तानुवन्ध्युदयरहितस्य मिथ्यादृष्टे : कालकरणप्रतिषेधात् , ततोऽपान्तरालगतौ वर्तमानस्य भवान्तरे वा प्रथमत एवोत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्रवैक्रियमिश्रकाययोगौ च भवान्तरे उत्पद्यमानस्य, एतच्च बाहुल्यमाश्रित्योक्तं, अन्यथा तिर्यमनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां क्रियमिश्रमवाप्यत एच, परं चूर्णिता तन्नात्र विवक्षितं, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतुर्विंशतयः। सम्यनिध्यादृष्टेवेंक्रियकाययोगे चतस्रः । अविरतसम्यग्दृष्टेबैंक्रिय(काय योगेष्टौ । देशविरतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ । प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येक मष्टावष्टौ । अप्रमत्तसंयतस्य वैक्रियकाययोगेऽष्टौ। सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः। एताश्चतुर्विंशत्या गुणिता द्वे सहस्रे षोडशोत्तरे भवन्ति, तानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सासादनस्य वैक्रियमिश्रे वर्तमानस्य ये चत्वारोऽमी उदयस्थानविकल्पाः-सप्तोदय एकविधः, द्विविधोऽष्टोदये, एकविधश्च नवोदये इति, एषु नपुंसकवेदोन लभ्यते, वैक्रियमिश्रकाययोगिषु नपुंसकवेदिषु नारकेषु मध्ये सासादनस्यो. त्पादाभावात् । ये चाविरतसम्यग्दृष्टेबैंक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेषु स्त्रीवेदो न लभ्यते, वैक्रियका| ययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् । एतच्च प्रायोवृत्योक्तम्, अन्यथा कदाचित् स्त्रीवेदिष्वपि मध्ये तदुत्पादो द्रष्टव्यः, उक्तं च सप्ततिकाचूणा-"कयाइ होज्ज इथिवेयगेसु वित्ति", ततश्चतुर्विंशत्यष्टकस्य द्विनवत्यधिकशतप्रमाणस्य १९२ त्रिभागश्चतुःषष्टि
Deeaa
MIDAI
Loading... Page Navigation 1 ... 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490