SearchBrowseAboutContactDonate
Page Preview
Page 1442
Loading...
Download File
Download File
Page Text
________________ DDCORRHODOO परिणामपरावृत्या मिथ्यात्वं गतेन भूयस्ते बद्धमारभ्यन्ते, तस्येव मिथ्यादृष्टवन्धावलिकामात्र काल यावदनन्तानुबन्ध्युदया न प्राप्यत,। अनन्तानुबन्धिनश्च विसंयोज्य भूयोऽपि मिथ्यात्वं प्रतिपद्यते, जघन्यतोऽप्यन्तर्मुहूर्तावशेषायुष्क एवानन्तानुवन्ध्युदयरहितस्य मिथ्यादृष्टे : कालकरणप्रतिषेधात् , ततोऽपान्तरालगतौ वर्तमानस्य भवान्तरे वा प्रथमत एवोत्पन्नस्य मिथ्यादृष्टेः सतोऽनन्तानुबन्ध्युदयरहिता उदयविकल्पा न प्राप्यन्ते । अत्र च कार्मणकाययोगोऽपान्तरालगतौ औदारिकमिश्रवैक्रियमिश्रकाययोगौ च भवान्तरे उत्पद्यमानस्य, एतच्च बाहुल्यमाश्रित्योक्तं, अन्यथा तिर्यमनुष्याणामपि मिथ्यादृशां वैक्रियकारिणां क्रियमिश्रमवाप्यत एच, परं चूर्णिता तन्नात्र विवक्षितं, ततः कार्मणकाययोगादौ प्रत्येकं चतस्रश्चतुर्विंशतयोऽनन्तानुबन्ध्युदयरहिता न प्राप्यन्ते । तथा सासादनस्य कार्मणकाययोगे वैक्रियकाययोगे औदारिकमिश्रकाययोगे च प्रत्येकं चतस्रश्चतुर्विंशतयः। सम्यनिध्यादृष्टेवेंक्रियकाययोगे चतस्रः । अविरतसम्यग्दृष्टेबैंक्रिय(काय योगेष्टौ । देशविरतस्य वैक्रिये वैक्रियमिश्रे च प्रत्येकमष्टावष्टौ । प्रमत्तसंयतस्यापि वैक्रिये वैक्रियमिश्रे च प्रत्येक मष्टावष्टौ । अप्रमत्तसंयतस्य वैक्रियकाययोगेऽष्टौ। सर्वसङ्ख्यया चतुरशीतिश्चतुर्विंशतयः। एताश्चतुर्विंशत्या गुणिता द्वे सहस्रे षोडशोत्तरे भवन्ति, तानि पूर्वराशौ प्रक्षिप्यन्ते । तथा सासादनस्य वैक्रियमिश्रे वर्तमानस्य ये चत्वारोऽमी उदयस्थानविकल्पाः-सप्तोदय एकविधः, द्विविधोऽष्टोदये, एकविधश्च नवोदये इति, एषु नपुंसकवेदोन लभ्यते, वैक्रियमिश्रकाययोगिषु नपुंसकवेदिषु नारकेषु मध्ये सासादनस्यो. त्पादाभावात् । ये चाविरतसम्यग्दृष्टेबैंक्रियमिश्रे कार्मणकाययोगे च प्रत्येकमष्टावष्टावुदयस्थानविकल्पास्तेषु स्त्रीवेदो न लभ्यते, वैक्रियका| ययोगिषु स्त्रीवेदिषु मध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् । एतच्च प्रायोवृत्योक्तम्, अन्यथा कदाचित् स्त्रीवेदिष्वपि मध्ये तदुत्पादो द्रष्टव्यः, उक्तं च सप्ततिकाचूणा-"कयाइ होज्ज इथिवेयगेसु वित्ति", ततश्चतुर्विंशत्यष्टकस्य द्विनवत्यधिकशतप्रमाणस्य १९२ त्रिभागश्चतुःषष्टि Deeaa MIDAI
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy