________________
कर्मप्रकृतिः |
॥१४०॥
ततो द्विकोदया द्वादश, एकोदयाः पञ्च, मिलिताः सप्तदश, ते पूर्वराशौ प्रक्षिप्यन्ते, ततः सप्तनवत्यधिकानि द्विपञ्चाशच्छतानि स्युः | ५२९७, इयन्तो लेश्यागुणिता उदयभङ्गाः । उक्तं च- "तिगहीणा तेवन्ना सया उ उदयाण हुंति लेसाण" । अथैतत्पदसंख्या समानीयते - मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः, सासादने मिश्रे च द्वात्रिंशत्, अविरतसम्यग्दृष्टौ पष्टिः, सर्वसंख्यया द्विनवत्यधिकं शतम् । एते पभिर्लेश्याभिर्गुण्यन्ते, ततो द्विपञ्चाशदधिकान्येकादश शतानि स्युः ११५२ । तथा देशविरते द्विपञ्चाशत्, प्रमत्तेऽप्रमत्ते च चतुश्च त्वारिंशत्, सर्वसंख्यया चत्वारिंशं शतं जातं १४०, तच्च तिसृभिर्लेश्याभिर्गुण्यते, ततो जाता विंशत्यधिका चतुःशती ४२० । सर्वसंख्यया जातानि द्विनवत्यधिकानि पञ्चदश शतानि, एतानि चतुर्विंशतिगतानीति चतुर्विंशत्या गुण्यन्ते, जातान्यष्टात्रिंशत्सहस्राणि द्वे शते चाष्टाधिके ३८२०८ । ततो द्विकोदयै कोदयपदान्येकोनत्रिंशत्प्रक्षिष्यन्ते, ततो जातान्यष्टात्रिंशत्सहस्राणि शतद्वयं च सप्तत्रिंशदधिकं ३८२३७ । उक्तं च-"अडतीस सहस्साई पयाण सय दो य सगतीसा" |
अथ योगैः सह गुणनयोदयभङ्गा उदयपदानि च भाव्यन्ते - इह मिथ्यादृष्ट्यादिषु सूक्ष्मसम्परायान्तेषु द्विपञ्चाशचतु विंशतीनां ( ८४-४-८-८-८-८-४) द्वादशानां ( १२ ) चानिवृत्तौ द्विकोदयमङ्गानां पञ्चानां (५) चैकोदय भङ्गानां मीलने द्वादश शतानि पञ्चषष्टिश्रोदयभङ्गा भवन्ति १२६५ । तत्र वाग्योग चतुष्टयमनोयोगचतुष्टयौदारिककाययोगाः सर्वेष्वपि मिध्यादृष्टयादिगुणस्थानेषु संभवन्तीति प्रागुक्तभङ्गा नवभिर्गुण्यन्ते, जातान्येकादश सहस्राणि त्रीणि शतानि पञ्चाशीतिश्च ११३८५ । तथा मिथ्यादृष्टवैक्रियकायोगेऽष्टापि चतुर्विंशतयः प्राप्यन्ते । वैक्रियमिश्र औदारिकमिथे कार्मणकाययोगे च प्रत्येकं चतस्रश्वतस्रः, यतः सप्तोदय एका, अष्टो दये द्वे, नवोदये चैकेति चतस्रः, अनन्तानुबन्ध्युदयरहिता इह न प्राप्यन्ते, पूर्व हि वेदकसम्यग्दृष्टिना सताऽनन्तानुबन्धिनो विसंयोज्य
22 aa
योगगुणितोदयपदानि
॥१४०॥