Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust
View full book text ________________
१२ गुणस्थाने
कर्मप्रकृतिः ॥१३९॥
2GGERCISGRA
| कानि चतुरशीतिशतानि पदानां भवन्ति ८४८३ । यद्वा चतुर्विधबन्धकस्य मतान्तरेण द्वादश द्विकोदयभङ्गाः प्राप्यन्ते, तेषां पदानि च
चतुर्विंशतिः, ततस्तेषामप्यधिकानां क्षेपे सप्तोत्तराणि पश्चाशीतिशतानि पदानां भवन्ति ८५०७। | एवं योगोपयोगलेश्यादिभेदतोऽपि बहवो भेदा भवन्ति, तत्र योगानां बहुवक्तव्यत्वात्तान् विहाय प्रथमत उपयोगभेदतो भेदा
सरपयोगगुणि| भाव्यन्ते-इह मिथ्यादृष्टावष्टौ चतुर्विंशतयः, सासादने चतस्रः, मिश्रे चतस्रः, अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टी, प्रमत्तसंयतस्याष्टी,
तोदय
पदानि अप्रमत्तसंयतस्याष्टी, अपूर्वकरणस्य चतस्रः । तथा मिथ्यादृष्टौ सासादने सम्यग्मिथ्यादृष्टौ च प्रत्येकं मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानचक्षुरचक्षुर्दर्शनरूपाः पञ्चोपयोगाः। अविरतसम्यग्दृष्टिदेशविरतयोर्मतिश्रुतावधिज्ञानचक्षुरचक्षुरवधिदर्शनरूपाः प्रत्येकं षट् । प्रमत्तादीनां सूक्ष्मसम्परायान्तानां त एव षट् मनःपर्यवज्ञानसहिताः सप्त सप्त । तत्र मिथ्यादृष्टयादिषु चतुर्विंशतिगता अष्टादय उदयस्थानभङ्गा यथायोगमुपयोगैगुण्यन्ते, तद्यथा-मिथ्यादृष्टेरष्टौ, सासादने चत्वारः, मिश्रे चत्वारः, मिलिताः षोडश, पञ्चभिरुपयोगैर्गुण्यन्ते, अशीतिर्भवति ८० । अविरतसम्यग्दृष्टेरष्टौ, देशविरतस्याष्टौ, मिलिताः षोडश चतुर्विंशतिभङ्गाः, षड्भिरुपयोगैगुण्यन्ते षण्णवतिः स्यात् ९६ । प्रमत्तस्याष्टावप्रमत्तस्याप्यष्टौ, अपूर्वकरणस्य चत्वारः, मिलिता विंशतिः, सप्तभिरुपयोगॅMण्यन्ते, चत्वारिंशं शतं स्यात् १४० । सर्वसं. ख्यया त्रीणि शतानि पोडशोत्तराणि ३१६, एतानि चतुर्विंशत्या गुण्यन्ते, पञ्चसप्ततिशतानि चतुरशीत्यधिकानि स्युः ७५८४ । ततो| द्विकोदयभङ्गा द्वादश, एकोदयभङ्गाः पञ्च, मिलिताः सप्तदश, सप्तभिरुपयोगगुष्यन्ते, जातमेकोनविंशं शतं ११९ । तत् पूर्वराशी प्रक्षिप्यते, ततः सप्तसप्ततिशतानि व्युत्तराण्युदयभङ्गाः स्युः ७७०३ ।
॥१३९॥ अथ पदसंख्या समानीयते-तत्र मिथ्यादृष्टावष्टषष्टिः पदधुवकाः, सासादने द्वात्रिंशत् , मिश्रे द्वात्रिंशत् , अविरतसम्यग्दृष्टौ |
Loading... Page Navigation 1 ... 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490