Book Title: Karm Prakruti
Author(s): Shivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
Publisher: Jin Gun Aradhak Trust

View full book text
Previous | Next

Page 1438
________________ [ए] पदान्यपि चत्वार्यवेति सर्वसंख्ययाऽष्टाविंशतिपदान्यधिकानि प्रक्षिप्यन्ते, ततो जातानि पष्टिहीनानि सप्त सहस्राणि ६९४० । यद्वा || पञ्चकन्धे चतुर्विशतिपदानि, चतुष्करन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककबन्धे एक, अबन्धेऽप्येकमिति बन्धकभेदेन सर्वसंख्यया पश्चत्रिंशत्पदानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानि त्रिपञ्चाशद्धीनानि सप्त सहस्राणि ६९४७ । यद्वा मतान्तरेण चतुविधबन्धे द्वादश द्विकोदयभङ्गा लभ्यन्ते, पदानि च तत्र सर्वसंख्यया चतुर्विशतिः, तत्प्रक्षेपादेकोनसप्ततिशतान्येकसप्तत्यधिकानि भवन्ति ६९७१ । एतदव्यक्तोदयपदसंख्यायां मतत्रयं द्रष्टव्यम् । ___ अथ गुणस्थानोदयपदसंख्याऽभिधीयते-मिथ्यादृष्टावष्टषष्टिः पदध्रुवका-चतुर्विंशतिगुणनयोग्यानि पदानीत्यर्थः, तथाहि-दशोदये एका चतुर्विंशतिः, तत एको दशकेन गुण्यते, जाता दश । नवोदये तिस्रश्चतुर्विंशतय इति त्रयो नवभिगुण्यन्ते, जाता सप्तविंशतिः । अष्टकोदये तिस्रश्चतुर्विंशतयस्ततस्त्रयोऽष्टभिर्गुण्यन्ते, जाता चतुर्विंशतिः । सप्तोदये एका चतुर्विंशतिस्तत एकः सप्तभिगुण्यते, जाताः सप्त । सर्वसंख्यया मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः । एवं सासादने द्वात्रिंशत् । मिश्रे द्वात्रिंशत् । अविरतसम्यग्दृष्टौ पष्टिः। देशविरते द्विपञ्चाशत् । प्रमत्ते चतुश्चत्वारिंशत् । अप्रमत्ते चतुश्चत्वारिंशत् । अपूर्वकरणे विंशतिः । सर्वसंख्यया त्रीणि शतानि द्विपश्चाशदधिकानि पदध्रुवकाः । एते चतुर्विंशत्या गुण्यन्ते, जातानि चतुरशीतिशतान्यष्टचत्वारिंशदधिकानि । ततोऽनिवृत्तिबादरोदयपदानि प्रागुक्तान्यष्टाविंशतिसंख्यानि प्रक्षिप्यन्ते, सूक्ष्मसम्परायगतं चैकमबन्धकपदं तत्सहिता पूर्णा पदसंख्या भवति । सा च प्रयोविंशत्यूनानि पञ्चाशीतिशतानि ८४७७ । अथवा पञ्चविधबन्धके चतुर्विंशतिः पदानि, चतुष्कबन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककवन्धे एकं, अबन्धके च सूक्ष्मसम्पराये एकमित्येवं बन्धभेदेन सर्वसंख्यया पश्चत्रिंशत्पदानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, ततरुयशीत्यधि

Loading...

Page Navigation
1 ... 1436 1437 1438 1439 1440 1441 1442 1443 1444 1445 1446 1447 1448 1449 1450 1451 1452 1453 1454 1455 1456 1457 1458 1459 1460 1461 1462 1463 1464 1465 1466 1467 1468 1469 1470 1471 1472 1473 1474 1475 1476 1477 1478 1479 1480 1481 1482 1483 1484 1485 1486 1487 1488 1489 1490