________________
[ए] पदान्यपि चत्वार्यवेति सर्वसंख्ययाऽष्टाविंशतिपदान्यधिकानि प्रक्षिप्यन्ते, ततो जातानि पष्टिहीनानि सप्त सहस्राणि ६९४० । यद्वा ||
पञ्चकन्धे चतुर्विशतिपदानि, चतुष्करन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककबन्धे एक, अबन्धेऽप्येकमिति बन्धकभेदेन सर्वसंख्यया पश्चत्रिंशत्पदानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, जातानि त्रिपञ्चाशद्धीनानि सप्त सहस्राणि ६९४७ । यद्वा मतान्तरेण चतुविधबन्धे द्वादश द्विकोदयभङ्गा लभ्यन्ते, पदानि च तत्र सर्वसंख्यया चतुर्विशतिः, तत्प्रक्षेपादेकोनसप्ततिशतान्येकसप्तत्यधिकानि भवन्ति ६९७१ । एतदव्यक्तोदयपदसंख्यायां मतत्रयं द्रष्टव्यम् । ___ अथ गुणस्थानोदयपदसंख्याऽभिधीयते-मिथ्यादृष्टावष्टषष्टिः पदध्रुवका-चतुर्विंशतिगुणनयोग्यानि पदानीत्यर्थः, तथाहि-दशोदये एका चतुर्विंशतिः, तत एको दशकेन गुण्यते, जाता दश । नवोदये तिस्रश्चतुर्विंशतय इति त्रयो नवभिगुण्यन्ते, जाता सप्तविंशतिः । अष्टकोदये तिस्रश्चतुर्विंशतयस्ततस्त्रयोऽष्टभिर्गुण्यन्ते, जाता चतुर्विंशतिः । सप्तोदये एका चतुर्विंशतिस्तत एकः सप्तभिगुण्यते, जाताः सप्त । सर्वसंख्यया मिथ्यादृष्टौ पदध्रुवका अष्टषष्टिः । एवं सासादने द्वात्रिंशत् । मिश्रे द्वात्रिंशत् । अविरतसम्यग्दृष्टौ पष्टिः। देशविरते द्विपञ्चाशत् । प्रमत्ते चतुश्चत्वारिंशत् । अप्रमत्ते चतुश्चत्वारिंशत् । अपूर्वकरणे विंशतिः । सर्वसंख्यया त्रीणि शतानि द्विपश्चाशदधिकानि पदध्रुवकाः । एते चतुर्विंशत्या गुण्यन्ते, जातानि चतुरशीतिशतान्यष्टचत्वारिंशदधिकानि । ततोऽनिवृत्तिबादरोदयपदानि प्रागुक्तान्यष्टाविंशतिसंख्यानि प्रक्षिप्यन्ते, सूक्ष्मसम्परायगतं चैकमबन्धकपदं तत्सहिता पूर्णा पदसंख्या भवति । सा च प्रयोविंशत्यूनानि पञ्चाशीतिशतानि ८४७७ । अथवा पञ्चविधबन्धके चतुर्विंशतिः पदानि, चतुष्कबन्धे चत्वारि, त्रिकबन्धे त्रीणि, द्विकबन्धे द्वे, एककवन्धे एकं, अबन्धके च सूक्ष्मसम्पराये एकमित्येवं बन्धभेदेन सर्वसंख्यया पश्चत्रिंशत्पदानि, तानि पूर्वराशौ प्रक्षिप्यन्ते, ततरुयशीत्यधि