SearchBrowseAboutContactDonate
Page Preview
Page 1437
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१३८॥ asa Dhara सम्प्रत्युद्धरितं पदसमूहविषयं यद्वक्तव्यं तदुच्यते तत्र पदसमूहो द्विविधः - अव्यक्तोदय सम्बन्धी गुणस्थानकोदयस म्बन्धी च । तत्राव्यक्तोदया गुणस्थानकविनिर्मुक्तसामान्योदयास्तत्सम्बन्धिपद समूहपरिमाणं तावदुच्यते-तत्र दशकोदये एका चतुविंशतिः । नवोदये षट् तिस्रो मिथ्यादृष्टौ सासादन मिश्राविरतसम्यग्दृष्टिषु चैकैकेति । अष्टोदये एकादश- तिस्रो मिथ्यादृष्टौ, सासादन मिश्रयोद्वे द्वे, तिस्रोऽविरतसम्यग्दृष्टौ देशविरते चैकेति । सप्तोदये दश- मिध्यादृष्टिसासादनमिश्रेष्वेकैका, अविरतसम्यग्दृष्टिदेशविरतयोस्तिस्रस्तिस्रः, प्रमत्ताप्रमत्तयोर्मिलितयोः स्वरूपेण भेदाभावादेका चेति । पडदये सप्त - एकाऽविरतसम्यग्दृष्टौ देशविरते प्रमत्ताप्रमत्तयोश्च तिस्रस्तिस्र इति । अपूर्वकरणसत्कानि पटकादीन्युदयस्थानानि तु प्रमत्ताप्रमत्तसत्केभ्यः स्वरूपभेदाभावात् पृथन गण्यन्ते । पञ्चकोदये चतस्र:- एका देशविरते, तिस्रश्च प्रमत्ताप्रमत्तयोरिति । एका चतुष्कोदये, सा च प्रमत्ताप्रमत्तयोः । स्थापना१-६-११-१०-७-४-१ । एताश्चतुर्विंशतयस्तेन तेनोदयेन दशकादिना गुण्यन्ते । तथाहि दशकोदये एका चतुर्विंशतिः, सा दशकेन गुण्यते, जाता दश । नवकोदये पट् चतुर्विंशतय इति पद् नवकेन गुण्यन्ते, जाताश्चतुःपञ्चाशत् । अष्टोदये एकादश चतुर्विंशतय इत्येकादश अष्टभिर्गुण्यन्ते, जाता अष्टाशीतिः । सप्तोदये दश चतुर्विंशतय इति दश सप्तकेन गुण्यन्ते, जाता सप्ततिः । पडदये सप्त चतुर्विंशतयइति सप्त पद्भिर्गुण्यन्ते, जाता द्विचत्वारिंशत् । पञ्चोदये चतस्रञ्चतुर्विंशतय इति चतस्रः पञ्चभिर्गुण्यन्ते जाता विंशतिः । चतुरुदये एका चतुर्विंशतिरित्येका चतुर्भिर्गुण्यते, जाताश्चत्वारः । स्थापना - १०-५४-८८- ७०-४२-२०-४ । इत्थं गुणित्वा चतुर्विंशतय एकत्र मील्यन्ते, जातं शतद्वयमष्टाशीतं २८८ । तत एतच्चतुर्विंशत्या गुण्यते, जातानि द्वादशोत्तराण्ये कोनसप्ततिशतानि ६९१२। तत्र द्विकोदय भङ्गा द्वादश, तेषां द्विकसंज्ञेनोदयेन गुणितानि पदानि चतुर्विंशतिः, एकोदय भङ्गाश्चत्वारः, तेपां चैकोदय गुणितानि aagh मोहस्य गुणस्थानेषु पदवक्त व्यता ॥१३८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy