________________
S
TEST एव मनुष्ये नव भङ्गास्त एव परभवायुर्वन्धकालीननारकतियङ्मनुष्यायुबन्धघटितभङ्गत्रयहीनाः षट् द्रष्टव्याः, प्रमत्ताप्रमत्ता हि देवायु
रेवैकं बघ्नन्ति न शेषं, बन्धोत्तरकालं चरणप्रतिपत्त्या सत्ता तु चतुर्णामप्यायुषां संभवत्येव । अपूर्वकरणानिवृत्तिबादरसूक्ष्मसम्परायोप| शान्तभोहेधूपशमश्रेण्यां द्वौ भङ्गो, तद्यथा-मनुष्यायुष उदयो मनुष्यायुषः सत्ता, एष भङ्गः परभवायुर्वन्धकालात्पूर्व, यद्वा मनुष्यायुष उदयो देवमनुष्यायुषी सती, एष भङ्गः परभवायुर्वन्धोत्तरं पूर्वबद्धदेवायुष उपशमश्रेणिप्रतिपत्तिसंभवात् , क्षपकश्रेण्यां त्वेतेषां मनुष्यायुष उदयो मनुष्यायुषः सत्तेत्येष एक एव भङ्गः, पूर्वबद्धायुषां क्षपकश्रेण्यप्रतिपत्तेः । क्षीणमोहादिगुणस्थानत्रयेऽप्येष एवैको भङ्गो द्रष्टव्यः । उक्ता गुणस्थानेष्वायुषो भङ्गाः। अथ मोत्रस्योच्यन्ते-मिथ्यादृष्टौ गोत्रस्यादिमाः पञ्च भङ्गाः, तद्यथा-नीचैर्गोत्रस्य बन्धो नीचेगोत्रस्योदयो नीचैर्गोत्रं सत , एष तेजोवायुषु तद्भवादुवृत्तेषु वा कियत्कालम् । नीचैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती, यद्वा नीचैर्गोत्रस्य बन्ध उच्चर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्धो नीचर्गोत्रस्योदयो द्वे सती, यद्वोच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्र| स्योदयो । सती, एते चत्वारोऽपि यथायोगं मिथ्यादृशां संभवन्ति । एत एवादिमहीनाश्चत्वारः सासादने संभवन्ति, आद्यभङ्गस्थानेषु तेजोवायुपु सासादनभावो न लभ्यते, नापि तद्भवादुवृत्तेषु तदात्वे इति तत्प्रतिषेधः । मिश्रादारभ्य देशविरतिं यावदुच्चैर्गोत्रबन्धो| पलक्षितौ प्रत्येकं द्वौ भनौ भवतः । प्रमत्तसंयतादारभ्य सूक्ष्मसम्परायं यावन्नीचर्गोत्रोदयाभावादुच्चैर्गोत्रस्य बन्ध उच्चैगोत्रस्योदयो द्वे सती इत्येक एव भङ्गः। अबन्धेऽयोगिद्विचरमसमयं यावदुच्चोस्योदयो द्वे सती इति पष्ठ एव, चरमसमये तूच्चैर्गोत्रस्योदय उच्चैर्गोत्रमेव च सदिति सप्तम एव भङ्गः। उक्ता गुणस्थानेषु गोत्रभङ्गाः । अथ मोहनीये गुणस्थानेष्वपि बन्धोदयसत्ता स्थानान्युक्तान्येवेति न भृय उच्यन्ते।
O
ORISADS