________________
कर्म प्रकृतिः
॥१३७॥
श्वत्वारो भङ्गाः - असातस्य वन्धः सातस्योदयो द्वे सती, यद्वाऽसातस्य बन्धोऽसातस्योदयो द्वे सती, (यद्वा) सातस्य बन्धः सातस्योदयो द्वे सती, यद्वा सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येते मिथ्यादृष्टेरारभ्य यावत्प्रमत्तसंयतस्तावन्नानाजीवापेक्षया कालभेदेनैकजीवापेक्षया च भावनीयाः । सातस्य बन्धः सातस्योदयो द्वे सती, सातस्य बन्धोऽसातस्योदयो द्वे सती इत्येतौ द्वौ प्रमत्तसंयतादारभ्य याव| त्सयोगिकेवली तावत् । बन्धाभावेऽयोगिकेवलिनि चत्वारो विकल्पाः, तत्रासातस्योदयः सातासाते सती, यद्वा सातस्योदयः सातासाते सती, एतौ द्वौ द्विचरमसमयं यावत्, चरमसमये त्वन्यतरस्मिन् सति द्वौ भङ्गौ, तत्रासातस्योदयोऽसातस्य सत्तेत्येष भङ्गो यस्य द्विचरमसमये सातं क्षीणं तस्य, यस्य तु द्विचरमसमयेऽसातं क्षीणं तस्य सातस्योदयः सातस्य सत्तेत्येष भङ्गः । भाविता गुणस्थानेषु वेदनीयस्य भङ्गाः । अथायुषो भाव्यन्ते - आयुषो मिध्यादृष्टिगुणस्थानेऽष्टाविंशतिरपि भङ्गा नैरयिकान् देवाश्चाधिकृत्य पञ्च पञ्च, तिरथो मनुष्याश्चाधिकृत्य नव नवेति । सासादनस्य षड्विंशतिः, यतस्तिर्यञ्चो मनुष्या वा सासादनभावे वर्त्तमाना नरकायुर्न बध्नन्तीति परभवायुर्वन्धकाले तिरथां नृणां चैकैको भङ्गो न प्राप्यते । सम्यग्मिथ्यादृष्टेः षोडश, तस्य हि नायुबन्धारम्भ इति आयुर्वन्धकालीना द्वादश भङ्गा अपयान्तीति पोडश भवन्ति । अविरतसम्यग्दृष्टेविंशतिर्भङ्गाः, कथमिति चेद्, उच्यते-तिर्यद्मनुष्याणां प्रत्येकमायुर्वन्धकाले ये नरकतिर्यमनुष्यगतिविषयास्त्रयस्त्रयो भङ्गाः देवनैरयिकाणां च तिर्यग्गतिविषय एकैकभङ्गः ते सर्व संख्ययाऽष्टौ अविरतसम्यग्दृष्टेर्न भवन्तीति शेषा विंशतिरेव भवन्तीति । देशविरते द्वादश भङ्गाः, यतो देशविरतिर्देवानां नारकाणां च न संभवतीति तदाश्रिता दश भङ्गा अपयान्ति । तिर्यमनुष्या अपि देशविरता देवायुरेव बध्नन्ति न नरकतिर्यङ्मनुध्यायूंषि, ततस्तिर्यद्मनुष्याणामा युर्वन्धकालीनाखयखयो भङ्गा न प्राप्यन्ते इति पप्येतेऽपगच्छन्ति इत्यष्टाविंशतेः पोडशखपनीतेष्ववशिष्टा द्वादशैव भवन्ति । प्रमत्ताप्रमत्तयोर्य.
Grak 2055
गुणस्थानेषु कर्म्मणो
भङ्गाः
॥१३७॥