Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 163
________________ १४८ जैनतर्कभाषा । रुद्धमूर्खत्वाभावसाधकमूर्खत्वाभावव्याप्यशास्त्रज्ञत्ववत्तापरामर्शकालीनमूर्खत्वव्याप्यतत्पुत्रत्ववत्तापरामर्शविषयस्तत्पुत्रत्वहेतुस्सप्रतिपक्ष इति बोध्यम् । ___ पृ. १८. पं. ३ अतिप्रसङ्गवारणाय-बाधितसत्प्रतिपक्षहेत्वोरलक्ष्ययोस्सद्धेतुलक्षणस्यातिव्याप्तेर्वारणाय, प्रागुक्तरूपत्रयं पक्षसत्त्वसपक्षसत्त्वविपक्षासत्त्वलक्षणरूपत्रयम् , नैयायिकमतखण्डने हेतुमाह । पृ. १८. पं. ५ उदेष्यतीति-अत्र कृतिकोदयहेतौ पक्षस्य कस्यचिदभावादेव पक्षधर्मत्वस्यासिद्भया पक्षधर्मत्वघटितपश्चरूपत्वं सद्धेतुलक्षणं नास्तीति लक्ष्ये तस्मिन्नुक्तसद्धेतुलक्षणस्याभावादव्याप्तिरित्यर्थः । अलक्ष्येऽपि तत्पुत्रत्वादिलक्षणदुष्टहेतावेतल्लक्षणमस्तीत्यतिव्याप्तिरप्यत्र दोष इत्याह । पृ. १८. पं. ६ स श्याम इति-मित्रानाम्नी काचिदङ्गना । तस्याः पश्चपुत्रा बभूवुः तत्र चत्वारः श्यामरूपवन्तः एकस्तु पञ्चमो गौरः, तं गौरं पक्षीकृत्य मित्रापुत्रत्वेन हेतुना श्यामत्वं कश्चित्साधयन् स श्यामः तत्पुत्रत्वादित्यादिन्यायं प्रयुक्ते, अत्र तत्पुत्रत्वहेतौ पक्षसत्त्वादीनि पश्चापि रूपाणि विद्यन्ते परन्नायं सद्धेतुः शाकपाकजत्वस्य श्यामत्वलक्षणसाध्यव्यापकस्य तत्पुत्रत्वलक्षणहेत्वव्यापकस्योपाधेस्सत्त्वेन. सोपाधिकत्वाद्वयाप्यत्वासिद्धिलक्षणदोषाक्रान्तत्वेन हेत्वाभास इति अलक्ष्ये तत्र लक्षणगमनादतिव्याप्तिरिति न निरुक्तपश्चरूपोपपनत्वं हेतुलक्षणमित्यर्थः। एवञ्च परोक्तहेतुलक्षणे प्रत्याख्याते सति स्वाभिमताया निश्चितान्यथानुपपत्तेरेकस्या एव सर्वसद्धेतुगतत्वादुष्टहेत्ववृत्तित्वाच लक्षणत्वमुचितमित्याह निश्चितेति ॥ । इति हेतुस्वरूपनिरूपणम् । ॥ अथ साध्यस्वरूपनिरूपणम् ॥ - साध्यस्वरूपं निरूपयितुं तन्निरूपणानुकूलामुपोद्घातसङ्गतिमुपजीवन परशङ्कामुत्थापयति । : पृ. १८. पं. १० ननु...तत्र-अनुमानविषयीभूते साध्येऽवश्यवक्तव्ये सति, लक्षणाधीनालक्ष्यव्यवस्थितिरिति न हि साध्यस्य लक्षणमप्रदर्थ साध्यख

Loading...

Page Navigation
1 ... 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332