Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 244
________________ १. प्रमाणपरिच्छेदः। २३९ पृ. ३३ पं. ७ चारित्रेति-चारित्रलक्षणक्रियायाः, श्रुतपदेन ज्ञानस्य, सम्यक्त्वपदेन सम्यग्दर्शनस्य प्रतिपादनम्, ननु सम्यग्ज्ञानदर्शनचारित्राणि मोक्षमार्ग इति तत्त्वार्थसूत्रतस्सम्यग्ज्ञानदर्शनचारित्राणां त्रयाणां मोक्षकारणत्वं जैनराद्धान्तानुमते तच्च नैगमादयो नया अपि मन्यन्ते इति तेषां प्रमाणत्वमेव भवेत्कुतो ज्ञाननयत्वमित्यपेक्षायामाह । पृ. ३३ पं. ८ तथापि-त्रयाणां मोक्षकारणत्वमभ्युपगच्छन्तोऽपि । पृ. ३३ पं. ८ व्यस्तानामेव-मोक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकविभिन्नधर्माकलितानामेव, एवं सत्येव ज्ञानस्य प्राधान्येन कारणत्वं तदन्ययोश्च गौणत येत्युपगमस्तेषां युज्यते समुदितानां कारणत्वे तु सर्वेषां प्राधान्यमेव स्यादित्याह न तु समस्तानाम् , उक्तसूत्रे च मोक्षमार्ग इत्यैकवचनस्यैकस्वमर्थ विवक्षितमन्यथाविशेषणवाचकपदस्य विशेष्यगचकपदोत्तरविभक्तितात्पर्यविषयसङ्ख्याविरुद्धसङ्ख्याविवक्षाविषयत्वाभाववद्विभक्तिकत्वतस्समानवचनत्वस्यैव नियमेन मोक्षमार्गा इति बहुवचनान्तत्वं प्रसज्येतेति मोक्षमार्गत्वम्मोक्षम्प्रति कारणत्वं तत्र तदेकत्वमन्वेति एवञ्च त्रयाणां मोक्षम्प्रत्येककारणत्वं सूत्रोपदिष्टन्तदा स्याद्यदि समुदितानामेव कारणत्वम्भवेदितिसमुदितकारणत्वाभ्युपगमे सत्येव प्रमाणत्वं तच तेषानास्तीति, कुतो न नैगमादयस्समस्तानां कारणत्वमिच्छन्तीत्य. पेक्षायामाह। पृ. ३३ पं. ९ एतन्मते-नैगमादिमत इत्यर्थः, ज्ञानादित्रयादेवेत्येवकारेण ज्ञानादेरेकैकस्य व्यवच्छेदः। पृ. ३३ पं. १० अन्यथा-ज्ञानादित्रयादेव मोक्ष इति नियमाभ्युपगमे । पृ. ३३ पं. १० समुदायवादस्य-समुदितै नादिभित्रिभिर्मुक्तिर्न तु व्यस्तैरिति वादस्य स्थितपक्षत्वात् प्रमाणवादत्वात् , सम्यग्ज्ञान-सम्यग्दर्शनसम्यग्चारित्ररूपरत्नत्रयादेव मोक्ष इति सिद्धान्तपक्षे जैनीये यथा शक्तिनिपुणतालोक-काव्यशास्त्राद्यवेक्षणात् । काव्यज्ञशिक्षयाऽभ्यास इति हेतुस्तदुद्भवे ॥ १ ॥ इति वचनात् हेतुरित्यत्रैकवचनविवक्षितहेतुत्वगतैकत्वतश्शक्तिनिपुणताऽ भ्यासानां त्रयाणां समुदितानां काव्यम्प्रत्येकमेव कारणलं पर्याप्तं, तथोक्तरत्नत्र

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332