Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 277
________________ जनतर्कभाषा । पृ. ३८ पं. १९ तथा च सूत्रमिति-तत्सूत्रमुपदर्यत इत्ययः । पृ. ३८ पं. १९ उज्जुसुअस्स त्ति-ऋजुसूत्रस्य कोऽनुपयुक्त आगमत एकं द्रव्यावश्यकं पृथक्त्वं नेच्छत्यसौ ॥” इति संस्कृतम् । एतद्व्याख्यानं यथा "अतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयति अभ्युपगच्छतीति ऋजुसूत्रः अयं हि वर्तमानकालभाव्येव वस्त्युपगच्छति, नातीतं, विनष्टत्वात् , नाप्यनागतमनुत्पन्नत्वात् , वर्तमानकालभाव्यपि स्वकीयमेव मन्यते स्वकार्यसाधकत्वात् , स्वधनवत , परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्, तस्मादेको देवदत्तादिरनुपयुक्तोऽस्यमते आगमत एकं द्रव्यावश्यकमस्ति पुहत्तं नेच्छइ त्तिअतीतानागतभेदतः परकीय भेदतश्च पृथक्त्वं पार्थक्यं नेच्छत्यसौ, किं तर्हि वर्तमानकालीनं स्वगतमेव चाम्युपैति तचैकमेव इति भावः" इति एतावता द्रव्यनिःक्षेपाभ्युपगन्तृत्वं ऋजुसूत्रस्य व्यवस्थापितं । अथ स्थापनाभ्युपगन्तृत्वव्यवस्थापनायाह । पृ. ३८ पं. २१ कथमिति-अस्य नेच्छेदित्यनेन सम्बन्धः । पृ. ३८ पं. २१ अयम्-ऋजुत्रः पिण्डावस्थायामनाकारमपि सुवर्ण भविप्यत्कुण्डलादिलक्षणभावकारणत्वाद्यदैतन्मते द्रव्यं तदा विशिष्टेन्द्राधमिलापहेतुभूता साकारेन्द्रादिप्रतिमैतन्मते कथन्न भवेदिति समुदिताः कथं नेच्छेदित्यस्येच्छेदेव इत्यर्थः । नादृष्टचरीयं कल्पना येन प्रमाणवींथीं नावतरेदपि प्रत्यक्षप्रमाणादेव चेत्थमवधार्यते इति नानुपपन्नत्वसङ्कथाऽपीत्याह । पृ. ३८ पं. २४ न हि-प्रकारान्तरेण स्थापनाभ्युपगन्तत्वम् ऋजुसूत्रस्य व्यवस्थापयति । पृ. ३८ पं. २४ किश्चेति-तदर्थरहितं, इन्द्रार्थरहितम् । पृ. ३८ पं. २५ अयम्-ऋजुसूत्रः । पृ. ३८ पं. २५ भावकारणत्वाविशेषात्-भावोल्लासकारणत्वस्य नाम: स्थापनयोस्साधारण्यात् , कुतो नामस्थापने नेच्छेदित्युक्तिभङ्गया नामस्थापने इच्छेदेवेत्यर्थतो लब्धमपि स्पष्टपतिपत्त्यर्थमाह ।

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332