Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 294
________________ प्रमाणपरिच्छेदः । सादिभाववर्गों भवति ननु विधिस्तनिषेधस्वभावो धर्मों व्यस्तभावे तदुभयघटनामात्रतः पश्च चान्ये । एवं स्युप्तधर्माविषयकृत भिदास्संशयास्तेन सप्त जिज्ञासास्सप्त तेभ्योभ्युदयमधिगतास्सप्तप्रश्नाश्च ताभ्यः ॥ ३१ ॥ स्यादस्त्येवेह सर्व भवति च प्रथमो भङ्ग एवं द्वितीयः स्यान्नास्त्येवेह सर्व क्रमिक तदुभयावैदकौ योजितौ तौ । ज्ञेयोभङ्गस्तुतीयोऽथ युगपदुभया वेदकस्यात्तुरीयोs वक्तव्यं स्यात्ततोऽन्ये त्रय इह मीलनात्सम्भवन्तीह भङ्गीः ॥ ३२ ॥ धर्माणां भिन्नतायां भवति हि विकलादेशता भङ्गमात्रे तेषाञ्चाभिन्नतायां भवति तु सकलादेशता भङ्गमात्रे | अष्टौ कालादयस्तां विदधति नयतो गौणप्राधान्यभावादेवं स्यात्सप्तभङ्गी जिनसमयगता द्विस्वभावा प्रमाणम् ॥ ३३ ॥ एतद्वार्त्ताऽवसाने प्रथम इह परिच्छेद उक्तः प्रमाणे पूर्णार्था मानवाक्यं तत इह सकलादेशतस्तभङ्गी । सैव स्यानीतिवाक्यं ननु यदि विकलादेशतामेति तस्मादन्यतीर्थान्तरीयं वचनमुभयतो भ्रष्टमेकान्ततायाम् ॥ ३४ ॥ वस्त्वंशस्यैव बोधो नय इह गदितो नाप्रमाणं न मानं नेवासम्भाव्यमम्भोनिधिमितसकलं नासमुद्राऽम्बुधिर्नो । द्रव्यार्थः पर्यवार्थस्त्विति भवति भिदा तस्य तत्राद्य इष्टः प्राधान्याद् द्रव्यभावाकलनमतिरसौ पर्यवेष्वेत्युपेक्षाम् ।। ३५ ।। २७९ - अन्त्यः पर्यायमात्रं कलयति सकलं द्रव्यसाम्मुख्यशून्यो द्रव्यं सामान्यमन्यद्भवति नतु विशेषाभिधानं विवर्त्तम् । द्रव्यार्थस्तत्र मान्य स्त्रिविधइह नयो नैगमस्संग्रहथ ताभ्यामन्यस्तृतीयो व्यवहृति निपुणः पर्यवस्स्याच्चतुर्धा ॥ ३६ ॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332