________________
प्रमाणपरिच्छेदः ।
सादिभाववर्गों भवति ननु विधिस्तनिषेधस्वभावो धर्मों व्यस्तभावे तदुभयघटनामात्रतः पश्च चान्ये । एवं स्युप्तधर्माविषयकृत भिदास्संशयास्तेन सप्त जिज्ञासास्सप्त तेभ्योभ्युदयमधिगतास्सप्तप्रश्नाश्च ताभ्यः ॥ ३१ ॥
स्यादस्त्येवेह सर्व भवति च प्रथमो भङ्ग एवं द्वितीयः
स्यान्नास्त्येवेह सर्व क्रमिक तदुभयावैदकौ योजितौ तौ । ज्ञेयोभङ्गस्तुतीयोऽथ युगपदुभया वेदकस्यात्तुरीयोs
वक्तव्यं स्यात्ततोऽन्ये त्रय इह मीलनात्सम्भवन्तीह भङ्गीः ॥ ३२ ॥
धर्माणां भिन्नतायां भवति हि विकलादेशता भङ्गमात्रे
तेषाञ्चाभिन्नतायां भवति तु सकलादेशता भङ्गमात्रे | अष्टौ कालादयस्तां विदधति नयतो गौणप्राधान्यभावादेवं स्यात्सप्तभङ्गी जिनसमयगता द्विस्वभावा प्रमाणम् ॥ ३३ ॥
एतद्वार्त्ताऽवसाने प्रथम इह परिच्छेद उक्तः प्रमाणे
पूर्णार्था मानवाक्यं तत इह सकलादेशतस्तभङ्गी । सैव स्यानीतिवाक्यं ननु यदि विकलादेशतामेति तस्मादन्यतीर्थान्तरीयं वचनमुभयतो भ्रष्टमेकान्ततायाम् ॥ ३४ ॥
वस्त्वंशस्यैव बोधो नय इह गदितो नाप्रमाणं न मानं नेवासम्भाव्यमम्भोनिधिमितसकलं नासमुद्राऽम्बुधिर्नो । द्रव्यार्थः पर्यवार्थस्त्विति भवति भिदा तस्य तत्राद्य इष्टः प्राधान्याद् द्रव्यभावाकलनमतिरसौ पर्यवेष्वेत्युपेक्षाम् ।। ३५ ।।
२७९
- अन्त्यः पर्यायमात्रं कलयति सकलं द्रव्यसाम्मुख्यशून्यो द्रव्यं सामान्यमन्यद्भवति नतु विशेषाभिधानं विवर्त्तम् । द्रव्यार्थस्तत्र मान्य स्त्रिविधइह नयो नैगमस्संग्रहथ
ताभ्यामन्यस्तृतीयो व्यवहृति निपुणः पर्यवस्स्याच्चतुर्धा ॥ ३६ ॥