________________
१. प्रमाणपरिच्छेदः। रूपेणैव तज्ज्ञानम्भवति, तथा च गुणपर्यायवियुक्तस्य जीवस्याभावाचथावुद्धिस्सम्भवत्येव नेति न तयाऽसम्भवन्त्या बुद्धया द्रव्यस्थापना युक्तेत्याह ।
पृ. ४० पं. २ न खलु इति-नन्वेवं यद्यपीत्यादिना संसचिता निक्षेपचतुष्टयस्य न सर्वव्यापकता स्यादित्याशङ्कानिवारितप्रसरैवेत्याशङ्काम्पतिक्षिपति ।
पृ. ४० ५. ४ नचैवमिति-एवं द्रव्यजीव इति भङ्गस्य शून्यत्वे सति निषेधहेतुमाह।
पृ. ४० पं. ४ यतः....अन्येषु-जीवभिनेषु द्रव्यधर्मो द्रव्याधों द्रव्याकाश इत्यादिरपि धर्मास्तिकायादिषु जीवभिन्नेष्वपि भङ्गो न सम्भवत्येवेत्यत उक्तं प्राय इति । तथा च जीवपदं तादृशानामुपलक्षणम् । एतादृशाश्च कतिपये एवेति तदव्यापकत्वेऽपि नाव्यापित्वमित्यभिसन्धिः।
पृ. ४० पं. ५ तत्-निक्षेपचतुष्टयम् । पृ. ४० पं. ५ अत्रैकस्मिन्-जीवपदार्थ एव केवले ।
पृ. ४० पं. ५ न सम्भवति-द्रन्यजीवाभावानिक्षेपचतुष्टयं न सम्भवति, नमो भवतीत्यनेनान्वयः।
पृ. ४० पं. ६ एतावता-जीवेऽसम्भवमात्रेण ।
पृ. ४० पं. ६ अव्यापिता-वृद्धाः प्रवचनवृद्धाः विशेषावश्यककारादयः बदन्तीति शक्या। जीवेऽपि द्रव्यनिक्षेपस्सम्भवत्येवेति वस्तुत एव क्स्तुव्यापित्वं निक्षेपचतुष्टयस्य, यः खलु जीव प्राणधारणे इति धातुनिष्पनजीवपदस्य प्राणधारणादिरूपव्युत्पत्तिलभ्यमर्थमुपयोगलक्षणं रूढार्थ वा जानाति स यदा तदुपयोगो न वर्तते तदानीं द्रव्यजीव इतिमतमुपदर्शयति ।
। पृ. ४० पं. ६ जीवशब्दार्थज्ञस्तत्र-जीवशब्दार्थे एतशानुफ्योगो द्रव्य. मित्याश्रित्य, कारणं द्रव्यमित्यवलम्बनेन द्रव्यजीवमुपपाइयतां मतमाह ।