Book Title: Jain Tark Bhasha
Author(s): Vijayodaysuri
Publisher: Jashwantlal Girdharlal Shah

View full book text
Previous | Next

Page 288
________________ १. प्रमाणपरिच्छेदः। नैवमुपपादितः स्वामिविशेषं जीवम्प्रति मनुष्यजीवादेरकारणत्वात् देवजीवम्प्रति मनुष्यजीवस्य कारणत्वेन मनुष्यजीवो द्रव्यजीव इत्येवं द्रव्यनिक्षेपाकारो भवेन्न तु द्रव्यजीव इति । नहि पार्थिव विशेषषटम्प्रति कारणस्य मृत्पिण्डस्य द्रव्यघट इति व्यपदेशवत द्रव्यपार्थिव इति म्यपदेश इति दोषदुष्टत्वं सङ्गमयिष्यन् तथा थटीकाकदुक्तदोषं तावदादौ परिहरति । पृ. ४० पं. १५ इदं पुनरिहावधेयमिति-इह अनन्तराभिहताचार्यमतगततवार्थटीकाकदुरूसिद्धमात्रवृत्तिमावजीवत्वप्रसङ्गन्दोष । इदम् इत्यमित्यादिनाऽन न्तरमेव वक्ष्यमाणम् पुनः अवधेयम् सुधिया परिशीलनीयम् । पृ. ४० पं. १५ इत्थम् उत्तरोत्तरजीवम्प्रति कारणत्वतः । पृ. ४० पं. १५ भावत्वाविरोध:-भावत्वाविरोधाभावोर्थात् कारणत्वाद् द्रव्यमप्यस्तु कार्यापनत्वादनादिपरिणामिकजीवत्वादिमावयोगात्प्राणधारणादिमस्वाच भावत्वमप्यस्तु नास्त्यत्र कश्चित्प्रतिकूलस्तर्कः । एवञ्च सिद्ध एव भावजीवो नान्य इति दोषस्य नावकाशः । प्रत्युतशाले नामादिनामेकवस्तुगतानां भावाविनाभूतत्वप्रतिपादनतो भावत्वाविरोधमेव प्रतिपादितमस्तीत्याह एकवस्तुगतानामिति कुत्र प्रतिपादनमित्यपेक्षायामाह । पृ. ४० पं. १७ तदाह भाष्यकार....अहवेति-अथवा वस्त्वमिधानं नाम स्थापना च यस्तदाकारः। कारणत्वमस्य द्रव्यं कार्यापन तक भाषः ॥१॥ इति संस्कृतम् । तत्र स्वाभिमतं दोषमुद्धावयति । पृ. ४० पं. २० केवलमिति-स्पष्टम् एतत्स्वरूपविशेषजिज्ञासुभिरस्म मिर्मितनयरहस्यादिकमवलोकनीयं ग्रन्थगौरवमयानेह तद्विशेषविचारः प्रतन्यत इत्याचयेनाह । अधिकमिति ॥ इति जीवविषये निक्षेपानुगमनम् । ॥ इति जैनतर्कभाषाटीकायां तृतीयो निक्षेपपरिच्छेदः ॥

Loading...

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332